________________
श्रीआचाराङ्गवृत्तिः
(शीलाङ्का.) ॥ ५१२ ॥
ग्रथिता विषण्णाः काममराक्रान्ता जना 'लूषिणो' लूषणशीलाः हिंसका अज्ञानमोहोदयात् 'न परिवित्रसन्ति' न बिभ्यति, यो भूतांश्वारम्भान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया च परिहरति तस्यैते सुपरिज्ञाता भवन्ति ।
रम्भाणां परिज्ञाता स किमपरं कुर्यादित्याह - 'स' महामुनिः पूर्वव्यावणितस्वरूपो 'वान्त्वा त्यक्त्वा क्रोधं च मानं च मायां च लोभं चेति, स्वगतभेदसंसूचनार्थो व्यस्तनिर्देशः, सर्वानुयायित्वात् क्रोधस्य प्रथमोपादानं तत्सम्बद्धत्वान्मा नस्य लोभार्थं मायोपादीयत इत्यतस्तत्कारणत्वान्मायाया लोभस्यादावुपन्यासः ततः सर्वदोषाश्रयत्वात् सर्वं गुरुत्वाच्च सर्वोपरि लोभस्य, क्षपणाक्रमं वाऽऽश्रित्यायमुपन्यास इति, चकारो हीतरेतरापेक्षया समुच्चयार्थः । स एवं क्रोधादीन् वान्त्वा मोहनीयं त्रोटयति, स चैषोऽपगतमोहनीयः संसारसन्ततेस्तुट्टः - अपसृतो व्याख्यातस्तीर्थ कृदादिभिरितिरधिकारपरिसमाप्तौ ब्रवीमीत्येतत् पूर्वोक्तं ॥ यदि वैतद्वच्यमाणमित्याह
कायस्स वियाधाएं एस संगामसीसे वियाहिए से हु पारंगमे मुणी, अविहम्ममाणे फलगावडी कालोवणीए कंखिज्ज कालं जाव सरीरभेउत्तिबेमि ॥ सू० १९६ ॥ इति पंचम उद्देशकः ॥ ६-५ ॥ ॥ इति षष्ठमध्ययनम् ॥ ६ ॥
'काय' औदारिकादित्रयं घातिचतुष्टयं वा तस्य 'व्याघातो' विनाशः, अथवा चीयत इति कायस्तस्य विशेषेणाङ्गमर्यादयाऽऽयुष्कक्षयावधिलक्षणया घातो व्याघातः - शरीरविनाशः एष सङ्ग्रामशीर्षरूपतया व्याख्यातो, यथा हि सङ्ग्रामशिरसि परानीकनिशिताकृष्टकृपाणनिर्यत् प्रभासंवलितोद्यत्सूर्य स्विडुद्भूतविद्यन्नयन चमत्कृतिकारिणि कृतकरणोऽपि सुभ
धुता ६ उद्द शक: ५
।। ५१२ ॥