SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ मुष्टानरूपेण उत्-प्रावन्येन स्थित उत्थितः, तथा स्थितो ज्ञानादिके मोक्षाध्वन्यात्मा यस्य स स्थितात्मा, तथा स्निह्यतीति स्निहो न स्निहोऽस्निहा-नागद्वेषरहितत्वात् अप्रतिबद्धः, तथा न चलतीत्यचलः परीषहोपसर्गवातेरितोऽपीति, तथा चलः अनियतविहारित्वात , तथा संयमादबहिनिर्गता लेश्या-अध्यवसायो यस्य स बहिर्लेश्यः यो न तथा सोऽवहितेश्यः स एवम्भूतः परि-समन्तात संयमानुष्ठाने व्रजेत् परिव्रजेत् , न क्वचित्प्रतिवध्यमान इतियावत , स च किमिति संयमानुष्ठाने परिव्रजेदित्याह-संख्याय' अबंधार्य 'पेशलं' शोभनं 'धर्म' अविपरीतार्थ दर्शनं-दृष्टिः सदनुष्ठानं वा सा यस्यास्त्यसौ दृष्टिमान , सच कषायोपशमात् क्षयाद्वा, परि:-समन्ताभित:-शीतीभूतो। यस्त्वसङ्ख्यातवान् पेशलं धर्म मिथ्याहिष्टिरसोन निर्वातीति दर्शयितुमाह-इतिहेती यस्माद्विपरीतदर्शनो मिथ्याष्टिः सङ्गवान्न निर्वाति तस्मात 'सगं' मातापितृपुत्रकलत्रादिजनितं धनधान्यहिरण्यादिजनितं वा सङ्गविपाकं वा पश्यत यूयं विवेकेनावधारयत, सूत्रेणैव सलमाह-त एवं सङ्गिनो नराः सवाद्याभ्यन्तरेग्रेन्थेग्रथित्ता अवबद्धा विषण्णा ग्रन्थसङ्गे निमग्नाः कामैः-इच्छामदनरूपैराक्रान्ता अवष्टब्धा न निर्वान्ति, यद्येवं ततः किं कर्त्तव्यमित्याह-यस्मात्कामाद्यासक्तचेतसः स्वजनधनधान्यादिमृञ्छिताः कामजैः शारीरमानसादिभिदुखैरुपतापितास्तस्माद् रूक्षात-संयमानिःसङ्गात्मकात् 'नो परिवित्रसेत' न संयमानुष्ठानाबिभीयात् , यतः प्रभूततरदुःखानुषङ्गिणी हि सङ्गिन इति । कस्य पुनः संयमान परिवित्रसनं सम्भाव्यत इत्याह-यस्य महामुनेरवगतसंसारमोक्षकारणस्येमे सङ्गाः-आरम्भा अनन्तरोक्ता अविगानतः सर्वजनाचरितत्वात प्रत्यक्षासन्नवाचिनेदमाऽभिहिताः 'सर्वत: सर्वात्मकतया सुपरिबाता भवन्ति, किम्भूता आरम्भाः१-येविमे ग्रन्थ ५ .
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy