SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ धुता०६ श्रीआचारावृत्तिः (शीलाका.) उद्देशका XX . तनारूपा स्यात् , कथयतो वा यथा गात्रभङ्गरूपा भावाशातना न स्यात् तथा कथयेदिति, तथा नो परं शुषु आशातयेद्-हीलयेद् , यतः परो हीलनया कुपितः सन्नाहारोपकरणशरीरान्यतरपीडाय प्रवर्त्ततेति, अतस्तदाशातनां वर्जयन धर्म ब यादिति, तथाऽन्यान् वा सामान्येन प्राणिनो भूतान् जीवान् सच्चानो आशातयेद्-बाधयेत् , तदेवं स मुनिः स्वतोऽनाशातकः परैरनाशातयन् तथाऽपगनाशातयतोऽननुमन्यमानो परेषां वध्यमानानां प्राणिनां भूतानां जीवानां सचानां यथा पीडा नोत्पद्यते तथा धर्म कथयेदिति, तद्यथा-यदि लौकिककुप्रावचनिकपार्श्वस्थादिदानानि प्रशंसति अवटतटामादीनि वा ततः पृथिवीकायादयो व्यापादिता भवेयुः, अथ दूषयति ततोऽपरेषा अन्तरायापादनेन तत्कृतो बन्धविपाकानुभवः स्यात् उक्तं च-"जे 'उ दाणं पसंसंति, वहमिच्छति पाणिणं । जे उ णं पडि. सेहिंति, वित्तिच्छेअं करिति ते॥१॥" तस्मात्तदानावटतडामादिविधिप्रतिषेधव्युदासेन यथावस्थितं दानं शुद्धं प्ररूपयेत् सावद्यानुष्ठानं चेति, एवं च ब्रवन्नुभयदोषपरिहारी जन्तूनामाश्वासभूमिर्भवतीति, एतदृष्टान्तद्वारेण दर्शयतियथाऽसौ द्वीपोऽसन्दीनः शरणं भवत्येवमसावपि महामुनिः तद्रक्षणोपायोपदेशतः वध्यमानानां वधकानां च तदध्यवसायविनिर्वर्तनेन विशिष्टणस्थानापादनाच्छरण्यो भवति, तथाहि-यथोद्दिष्टेन कथाविधानेन धर्मकथा कथयन् कांचन प्रवाजयति कश्चिन श्रावकान् विधत्ते काश्चन सम्यग्दर्शनयुजः करोति, केषाश्चित्प्रकृतिभद्रकतामापादयति । किंगुणश्चासौ द्वीप इव शरण्यो भवतीत्याह-एव'मिति वक्ष्यमाणप्रकारेण 'स' शरण्यो महामुनिर्भावोत्थानेन संयमा १ ये तु दानं प्रशंसन्ति वधमिच्छन्ति प्राणिनाम्। ये चैतत् प्रतिषेधयन्ति वृत्तिच्छेद कुर्वन्ति ते ॥ १ ॥ 100.00 ५१०॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy