________________
॥ ५१५॥
XX
6.x.
अणपुग्विविहारीणं भत्तपरित्रा य इंगिणीमरणं । पायवगमणं च तहा अहिगारो होइ अट्ठमए ॥२५॥
अत्रायोद्देशकेऽयमर्थाधिकारः, तद्यथा-असमनुज्ञानां समनोज्ञानां वा त्रयाणां त्रिषष्ठयधिकानां प्रावादुकशतानां विमोक्षः-परित्यागः कार्य:, तथा तदाहारोपधिशय्यातदृष्टिपरित्यागश्च, पार्श्व स्थादयः पुनश्चारित्रतपोविनयेष्वसमनोज्ञाः, यथाच्छन्दास्तु पश्चस्वपि ज्ञानाचारादिष्वसमनोज्ञास्तेषां यथायोगं त्यागो विधेय इति १। द्वितीये तु अकल्पिकस्य-आधाकर्मादेविमोक्षा-परीत्यागः कार्यों, यदिवाऽऽधाकर्मणा कचिनिमन्त्रयेत, ततःप्रतिषेधो विधेयः, तत्प्रतिषेधे च रुष्टस्य सतः सिद्धान्तसद्भावः कथनीको यथैवम्भूतं दानं तव मम च न गुणायेति २ । तृतीये तूद्देशकेऽयमर्थाधिकारः, तद्यथागोचरगतस्य यतेशीतादिना कम्पनादिकायामङ्गचेष्टायां सत्यां गृहस्थस्येयमारेका स्याद् यथा-ग्रामधम्मरुद्वाध्यमानस्य शृङ्गारभावावेशादस्य यतेः कम्पनमित्येवं भाषिते आशङ्किते वा तदाशङ्काव्युदासाय यथावस्थितार्थकथना क्रियत इति ३ । शेषेषु तूद्देशकेषु पञ्चस्वयमर्थाधिकार, तद्यथा-उपकरणशरीराणां विमोक्षः-परित्यागस्तद्विषयः समासतो व्यासतस्तूच्यतेचतुर्थोद्देशके स्वयमर्थाधिकारः, तद्यथा-वैहानसम्-उद्बन्धनं गार्द्धपृष्ठम्-अपरमासादिहृदयन्यासाग्द्गृद्धादिनाऽऽत्मव्यापादनम्, एतत् प्रकारद्वयं मरणं वाच्यं ४ । पश्चमके तु ग्लानंता भक्तपरिज्ञा च बोद्धव्या ५। षष्ठे त्वेकत्वम्-एकत्वभावनातथेङ्गितमरणं च बोद्धव्यं ६ । सप्तमके तु प्रतिमा:-भिक्षुपतिमा मासादिका वाच्याः, तथा पादपीपगमनं च ज्ञातव्यमिति ७ । अष्टमके त्वयमर्थाधिकारः, तद्यथा-अनुपूर्वविहारिणां-प्रतिपालितदीर्घसंयमानां शास्त्रार्थग्रहणप्रतिपादनोत्तरकालमवसीदतसंयमाध्ययनाध्यापनक्रियाणां निष्पादितशिष्याणामुत्सर्गतः द्वादशसंवत्सरसंलेखनक्रमसंलिखितदेहानां भक्तपरिटेङ्गित