________________
॥५.७H
स्यात् , यदिवा वातपित्तश्लेष्मादिक्षोभात् स्पाः स्पृशन्ति, अथवा निष्किञ्चनतया तृणस्पर्शदंशमशकशीतोष्णाद्यापा
दिताः स्पर्शाः-दुःखविशेषाः कदाचिस्पृशन्ति-अभिभवन्ति, तैश्च स्पृष्टः परीप हैम्तान् स्पर्शान--दुःखविशेषान् 'धीरः' Pa अझोम्योऽधिमहेत नरकादिदुःखभावनयाऽवन्ध्यकम्मोदयापादितं पुनरपि मयैवैतत्सोढव्यमित्याकलय्य सम्यक् तिति
क्षेतेति । कीदृक्षोऽधिसहेतेत्यत आह, यदिवा म एवम्भूतो न केवलमात्मनस्त्राता सदुपदेशदानतः परेषामपीति | दर्शयितुमाह -'ओजः' एको रागादिविरहात सम्यग इतं--गतं दर्शन मस्येति समितदर्शनः, सम्यग्दृष्टिरित्यर्थः, यदिया 'शमितम्' उपशमं नीतं 'दर्शन' दृष्टिनिमस्येति शमितदर्शनः, उपशान्ताध्यवसाय इत्यर्थः, अथवा समतामितं-- गतं दशनं- दृष्टिरस्येति समितदर्शनः, समदृष्टिरित्यर्थः, एवम्भृतः स्पर्शानधिसहेत, यदिवा धर्म माचझीतेत्युत्तरक्रियया सह सम्बन्धः, किमभिसन्धाय धर्ममाचक्षीतेति दर्शयति-'दयां कृपा 'लोकस्य' जन्तुलोकस्योपरि द्रव्यतो ज्ञात्वा क्षेत्रतः प्राचीनं प्रतीचीनं दक्षीणमुदीचीनम रानपि दिग्विभागानभिसमीक्ष्य सर्वत्र दयां कुर्वन् धर्ममाचक्षीत, कालतो | यावज्जीवं, भावतोऽरक्तोऽद्विष्टा, कथमाचक्षीत ?--तद्यथा--सर्वे जन्तवो दुःखद्विषः सुखलिप्सवः आत्मोपमया सदा द्रष्टव्या इति, उक्तं च-"न तत्परस्य संध्यात्, प्रतिकूलं यदात्मनः । एष समाहिको धर्मः, कामादन्यः प्रवर्तते ॥१॥" इत्यादि, तथा धर्ममाचक्षाणो 'विभजेत्' द्रव्यक्षेत्रकालभावभेदैराक्षेपण्यादिकथाविशेष प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहरात्रीभोजनविरतिविशेपैर्वा धर्म विभजेत् , यदिवा कोऽयं पुरुषः कं नतो देवताविशेषमभिगृहीतोऽनभिगृहीतो वा? एवं विभजेत् , तथा कीर्तयेबतानुष्ठानफलं, कोऽसौ कीर्तयेद् ?--वेदविद्,
५०७॥