________________
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
"परलोकविरुद्धानि, कुर्वाणं दूरतस्त्यजेत । आत्मानं यो न संधत्ते, सौऽन्यस्मै स्यात्कथं हितः ? ॥१॥" इत्यादि, यदिवा सूत्रेणैवालाध्यता दर्शयितुमाह-सोऽयं श्रमणो भूत्वा विविधं भ्रान्तो-भग्नः श्रमणविभ्रान्तो, वीप्सयाऽत्यन्तनुगुप्सामाह, किंच--पश्यत यूयं कर्मसामयम् 'एके विश्रान्तमागधेयाः समन्वागतरुद्यक्तविहारिभिः सह वसन्तोऽप्यसमन्यामता:-शीतलविहारिणः, नथा 'नममानै.' संयमानुष्ठानेन विनयवद्भिः 'अनममानान्' निघुणतया सावद्यानुष्ठायिनो, विस्तरविरता द्रव्यभूतैरद्रव्यभूताः पापकलङ्काङ्कितत्वादेवम्भूतैरपि साधुभिः सह वसन्तोऽपि, एवम्भूतान 'अभिसमत्व' ज्ञात्वा किं कर्त्तव्यमिति दर्शयति पण्डितः त्वं ज्ञातज्ञेयो 'मेधावो' मर्यादाव्यवस्थितो 'निष्ठितार्थ:' विषयसुखनिपिपासो 'वीरः' कर्मविदारणसहिष्णु त्वा आगमेन' सर्वज्ञप्रणीतोपदेशानुसारेण 'सदा' सर्वकालं परिकामयेरिति । इतिरधिकारपरिसमाप्तौ, ब्रवीमिति पूर्ववद् ॥ धृताध्ययनस्य चतुर्थोद्देशकः । परिसमाप्तः ॥ ६-४॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥ अथ षष्ठाध्ययने पञ्चमोद्देशकः ॥ उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चम आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके कर्मविधूननाथ गौरवत्रयविधूननाऽभिहिता, सा च कर्मविधूननोपसर्गविधूननामन्तरेण न सम्पूर्णभावमनुभवति, नापि सत्कारपुरस्कारात्मकसन्मानविधूननामन्तरेण गौरवत्रयविधुनना सम्पूर्णतामियादित्यत उपसर्गसन्मानविधननार्थमिदमुपक्रम्यते, इत्यनेन
॥ ५०३॥