SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ॥ ५०१ ॥ कम्मं न करेस्सामो समुट्ठाएं ) पस्स दोणे उप्पहए पडिवयमाणे वसट्टा कायरा जगा लूगसा भवंति, अहमेगेसिं सिलोए पावए भवह, से समणो भवित्ता विभते २ पासहेगे समन्नागएहिं सह असमन्नागए नममाणेहिं अनममाणे विरहिं अविरए दविएहिं अदविए अभिसमिचा पंडिए मेहावो निडियट्ठे वीरे आगमेणं सया परकमिजासि तिमि ॥ सू० १९३ ॥ इति चतुर्थ उद्देशकः ॥ ६-४ ॥ केचन - विदितवेद्या वीरायमाणाः सम्यगुत्थानेनोत्थाय पुनः प्राण्युपमर्दका भवन्तीति, कथमुत्थाय ? - किमहमनेन 'भोः' इत्यामन्त्रणे 'जनेन' मातापितृपुत्रकलत्रादिना स्वार्थपरेण परमार्थतोऽनर्थरूपेण करिष्यामीति, न ममायं कस्यचिदपि कार्यस्य रोगापनयनादेरलमित्यतोऽनेन किमहं करिष्ये ?, यदिवा प्रविवजिषुः केनचिदभिहितः किमनया सिकताकवलसन्निभया प्रव्रज्यया करिष्यति भवान् ? अदृष्टवशायातं तावद्भोजनादिकं भुङ्क्ष्वेत्यभिहितो विरागतामापन्नो ब्रवीतिकिमहमनेन भोजनादिना करिष्ये १, भुक्तं मयाऽनेकशः संसारे पर्यटता तथापि तृप्तिर्नाभूत्, तत्किमिदानीमनेन जन्मना भविष्यतीत्येवं मन्यमाना एके विदितसंसारस्वभावा उ (वि) दित्वाऽप्येवं ततो 'मातरं' जननीं 'पितरं जनयितारं जननीपितरं ' हित्वा त्यक्त्वा ' ज्ञातयः' पूर्वापरसम्बन्धिनः स्वजनास्तान् परिगृह्यत इति परिग्रहः- धनधान्यहिरण्यद्विपदचतुष्पदादिः तं किम्भूताः ? - वीरमिवात्मानमाचरन्तो वीरायमाणाः सम्यक संयमानुष्ठानेनोत्थाय समुत्थाय विविधैरुपायैहिंसा विहिंसा न विद्यते विहिंसा येषां तेऽविहिंसा:, तथा शोभनं व्रतं येषां ते सुव्रताः, तथेन्द्रियदमाद्दान्ताः, इत्येवं ॥ ५०१ ।
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy