________________
सम्यगनुष्ठानात् दुनिष्क्रान्तास्तस्माद्बालानां-प्राकृतपुरुषाणामपि वचनीया गया बालवचनीयास्ते नरा इति । किं चपौनःपुन्येनारहट्टघटीयन्त्रन्यायेन जातिः-उत्पत्तिस्तां कल्पयन्ति, किम्भृतास्ते इत्याह-अधःसंयमस्थानेषु सम्भवन्तोवर्तमाना अविद्यया वाऽधो वर्तमानाः सन्तो विद्वांसो वयमित्येवं मन्यमाना लघुतयाऽऽत्मानं व्युत्कर्षयेयुरिति-आत्मनः श्लाघां कुर्वने, यत्किश्चिज्जानानोऽपि मानोन्नतत्वाद्रससातागौरवबहुलोऽहमेवात्र बहुश्रुतो यदाचार्यों जानाति तन्मयाऽल्पेनैव का लेनाधीतमित्येवमात्मानं पुत्कर्षयेदिति । नात्मश्लाघतयैवासते, परानप्य पवदेयुरित्याह-'उदासीनाः' रागद्वेषरहिता मध्यस्था बहुश्रुतत्वे सत्युपशान्तास्तान स्खलितचोदनोद्यतान् परुष वदन्ति, तद्यथा-स्मयमेव तावत्कृत्यमकृत्यं वा जानीहि ततोऽन्येषामुपदेक्ष्यसीति । यथा च परुषं वदन्ति तथा सूत्रेणैव दर्शयितुमाह-'पलिय'ति अनुष्ठानं तेन पूर्वाचरितेनानुष्ठानेन तृण हारादिना प्रकथयेद्-एवम्भूतस्त्वमिति, अन्यथा वा कुण्टमण्टादिभिगुणे मुखविकारादिभिर्वा प्रकथयेदिति । किम्भृतैः ?-'अतथ्यः' अविद्यमानैरिति । उपसंहरनाह-'त' वाच्यमवाच्यं वा 'तं' वा धर्म श्रुतचारित्राख्यं 'मेधावी' मर्यादाव्यवस्थितो 'जानीयात्' सम्यक परिच्छिन्द्यादिति ॥ सोऽसभ्यवादप्रवृत्तो बालो गुदिना यथाऽनुशास्यते तथा दर्शयितुमाह
अहम्मट्ठी तुमंसि नाम बाले आरंभट्ठी अणुवयमाणे हण पाणे घायमाणे हणओ यावि समणजाणमाणे, घोरे धम्मे, उदीरिए उवेहद अणाणाए, एस विसन्ने वियद्दे वियाहिए त्तिबेमि ॥ सू० १९२॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀