________________
॥ ४६७।
शीलम्-अष्टादशशीलाङ्गासहस्रमङ्ख्यं, यदिवा महाव्रतसमाधानं पञ्चेन्द्रियजयः कषायनिग्रहस्निगुप्तिगुप्तता चेत्येतच्छीलं विद्यते येषां ते शीलवन्तः, तथा उपशान्ताः कषायोपशमात् , अत्र शीलवग्रहणेनैव गतार्थत्वादुपशान्ता इत्येतद्विशेषणं कषायनिग्रहप्राधान्यख्यापनार्थ, सम्यक् ख्यायते-प्रकाश्यतेऽनयेति संख्या-प्रज्ञा तया 'रीयमाणा' संयमानुष्ठाने पराक्रममाणाः सन्तः कस्यचिद्विश्रान्तमागधेयतया अशीला एत इत्येवमनुवदतोऽनु-पश्चाद्वदतः पृष्ठतो वदतोऽन्येन वा मिथ्यादृष्टयादिना कुशीला इत्येवमुक्तेऽनुवदतः पार्श्वस्थादेः द्वितीयैषा 'मन्दस्य' अज्ञस्य 'चालता' मुर्खता, एक तावत्स्वतश्चारित्रापगमः पुनरपरानुधुक्तविहारिणोऽपवदत इत्येषा द्वितीया बालता, यदिवा शीलवन्त एते उपशान्ता वेत्येवमन्येनाभिहिते क्वैषां प्रचुरोपकरणानां शीलवत्तोपशान्तता वा इत्येवमनुवदतो हीनाचारस्य द्वितीया बालता भवतीति ॥ अपरे तु वीर्यान्तरायोदयात् स्वतोऽवसीदन्तोऽप्यपरसाधुप्रशंसान्विता यथावस्थितमाचारगोचरमावेदयेयुः, इत्येतद्दर्शयितुमाह
नियमाणा वेगे आयारगोयरमाइक्खंति, नाणभट्ठा सणलसिणो ॥ सू० १६० ॥ एके-कम्र्मोदयात् संयमानिवर्तमाना लिङ्गाद्वा, वाशब्दादनिवर्तमाना वा, यथावस्थितमाचारगोचरमाचक्षते, वयं तु कर्त्तमसहिष्णव आचारस्त्वेवम्भूत इत्येवं वदतां तेषां द्वितीया बालता न भवत्येव, न पुनर्वदन्ति-एवंभूत एवाचारो योऽस्माभिरनुष्ठीयते, साम्प्रतं दुष्षमानुभावेन बलाद्यपगमान्मध्यभूतैव वर्तनी श्रेयसी नोत्सर्गावसर इति, उक्तं हि"नात्यायत्तं न शिथिलं, यथा युञ्जीत सारथिः। तथा भद्रं वहन्त्यश्वा, योगः सर्वत्र पूजितः॥१॥
॥४७॥