________________
श्रीआचागावृत्तिः (शीलाझा.)
धुता. ३ उद्देशका
.४९६ ॥
इत्यादि, ततश्च यो येन ग्लायति तस्य तदपनयनार्थमाधाकांद्यपि कार्य, स्यादेतत्-किं तेषां नाख्याताः कुशीलानां प्रत्यपायाः यथाऽऽशातनाबहुलानां दीर्घः संसार इति ?, तदुच्यते-'तुः' अवधारणे, आख्यातमेवैतत्कुशीलविपाकादिकं श्रुत्वा 'निशम्य' अवबुध्य च शास्तारमेव परुष वदन्तीति सम्बन्धः। किमर्थं तर्हि शृण्वन्तीति चेत्तदाह-समनोज्ञा' लोकसम्मता जीविष्याम इतिकृत्वा प्रश्नव्याकरणार्थमेव शब्दशास्त्रादीनि शास्त्राण्यधीयते, यदिवा अनेनोपायेन लोकसम्मता जीविष्याम इतिकृत्वैके निष्क्रम्य, अथवा समनोज्ञा उद्यक्तविहारिणः सन्तो जीविष्यामः संयमजीवितेनेत्येवं निष्क्रम्य पुनर्मोहोदयाद् असम्भवन्तः-ते गौरवत्रिकान्यतरदोषात् ज्ञानादिके मोक्षमार्गे न सम्यग्मवन्तो-नोपदेशे वर्तमाना विविधं दह्यमानाः कामद्धा गौरवत्रिकेऽध्युपपना विषयेषु 'समाधि' इन्द्रियप्रणिधानमाख्यातं तीर्थकदादिभिः यमावेदितं तं 'अजोषयन्त:' असेवमाना दुर्विदग्धा आचार्यादिना शास्त्राभिप्रायेण चोद्यमाना अपि तच्छास्तारमेव परुष वदन्ति-नास्मिन्विषये भवान् किञ्चिज्जानाति, यथाऽहं सूत्रार्थ शब्दं गणितं निमित्तं वा जाने तथा कोऽन्यो जानीते, इत्येवमाचार्यादिकं शास्तारं हीलयन्तः परुष वदन्ति, यदिवा शास्ता-तीर्थकृदादिस्तमपि परुष वदन्ति, तथाहि-कचित्स्खलिते चोदिता जगदु:-किमन्यदधिकं तीर्थद्वक्ष्यत्यस्मद्गलकर्तनादपीति, इत्यादिभिरपाचीनैरालापरलीकविद्यामदावलेपाच्छास्त्रकृतामपि दुषणानि वदेयुः॥ न केवलं शास्तारं परुष वदन्त्यपरानपि साधूनपवदेयुरित्येतदाह
सीलमंता उवसंता संखाए रीयमाणा असीला अणवयमाणस्स बिइया मंदस्स बालया ॥ सू०१८९॥