________________
॥४॥५॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
sपरमाह-त्वं न जानी न चैषा शब्दानामयमथों यो भवताऽभाणि, अपि च-कश्चिदेव मादृशः शब्दार्थनिर्णयायालं, न सर्व इति, उक्तं च-'पष्टा गुरवः स्वयमपि परीक्षितं निश्चितं पुनरिदम नः । वादिनि च मल्लमुख्य च मागेवान्तरं गच्छेत ॥१॥" द्वितीयस्त्वाह-नन्वस्पदाचार्या एवमाज्ञापयन्तीत्युक्ते पुनराह-सोऽपि वाचिकुण्ठो बुद्धिविकलः किं जानीते , त्वमपि च शुकवत्पाठितो निरूहापोह इत्यादीन्यन्यान्यपि, दुगृहीतकतिचिदक्षरो महोपशमकारणं ज्ञानं विपरीततामापादयन् म्बौद्धत्यमाविर्भावयन् भापते, उक्तं च--"अन्यैः स्वेच्छारचितानर्थविशेषान् अमेण विज्ञाय । कृत्स्नं वाग्मयमित इति खादत्यङ्गानि दर्पण ॥ १॥ क्रीडनकमीश्वराणां कुक्कुटलावकसमानवाल्लभ्यः। शास्त्राण्यपि हास्यकथां लघुतां वा क्षल्लको नयति ॥२॥" इत्यादि, पाठान्तरं वा "हेच्चा उवसमं अहेगे पारुसियं समारहंति" त्यक्त्वोपशमम् 'अथ' अनन्तरं बहुश्रुतीभूताः एके न सर्वे परुषतामालम्बन्ते, ततश्चालताः शब्दिता वा तूष्णीभावं मजन्ते हुङ्कारशिरः--कम्पनादिना वा प्रतिवचनं ददति । किं च एके पुनर्बह्मचर्य-संयमस्तत्रोषित्वा आचारो वा ब्रह्मचर्य तदर्थोऽपि ब्रह्मचर्यमेव तत्रोषित्वा आचारार्थानुष्ठायिनोऽपि तद्भत्सितास्तामाज्ञा-तीर्थकरोपदेशरूपां 'नो इति मन्यमानाः' नोशब्दो देशप्रतिषेधे देशतस्तीर्थकरोपदेशं न बहु मन्यमानाः सातागौरववाहुल्याच्छरीरवाकुशिकतामालम्बन्ते, यदिवा अपवादमालम्ब्य प्रवर्त्तमाना उत्सर्गचोदनाचोदिताः सन्तः नैषा तीर्थकराज्ञेत्येवं मन्यन्ते, दर्शयन्ति चापवादपदानि "'कुजा भिक्खू गिलाणस्स, अगिलाए समाहियं"
१ कुर्याद्भिक्षुग्लानस्य अग्लान्या समाहितं ।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
४४५॥