________________
# & !
܀܀܀܀܀
च दीनो भावद्वीपः क्षायिकं त्यसन्दीन इति तं द्विविधमवाप्य परीतसंसारत्वात् प्राणिन आश्वसन्ति भावदीपस्तु सन्दीनः श्रुतज्ञानम् असंदीनस्तु केवलमिति तचावाय प्राणिनोऽवश्यमाश्रमन्त्येवेति, अथवा धर्म संदधानः समुत्थितः सन्नस्तेदुष्प्रधृष्यो भवतीत्युक्ते कचिदयेत् किम्भूतम भम्मों ? यत्सन्धानाय समुत्थित इति, अत्रोच्यते वासी द्वीपोऽसन्दीनः-- असलिलप्लुतोऽव रुग्णवाहनानामितरेषां च बहूनां जन्तूनां शरण्यतयाऽऽश्वामहे तुर्भवत्येवमसावपि धर्मः 'आर्यप्रदेशितः' तीर्थकरप्रणीतः पतापच्छेदनिर्घटितोऽमन्दीनः यदिया कुतर्काप्रयतयाऽसन्दीनः - अक्षोभ्यः प्राणिनां त्राणायाश्वासभूमिर्भवति । तस्य चार्यप्रदेशितस्य धम्मस्य किं सम्यगनुष्ठायिनः केचन सन्ति ?, ओमित्युच्यते, यदि सन्ति किम्भूतास्त इत्याह- 'ते' साधवो भावसन्धानोद्यताः संयमारतेः प्रणोदका मोक्षनेदिष्ठा भोगाननवकाङ्क्षन्तो धर्मे सम्यगुत्थानवन्तः स्युरिति एतदुत्तरत्रापि योज्यम्, तथा प्राणिनोऽनतिपातयन्तः, उपलक्षणार्थत्वात् शेषमहाव्रतग्रहणमायोज्यं, तथा कुशलानुष्ठानप्रवृत्तत्वादयिताः सर्वलोकानां तथा 'मेधाविनो' मर्यादाव्यवस्थिताः 'पण्डिताः ' पायोपादान परिहारितया सम्यक्पदार्थज्ञा धर्म्माचरणाय समुत्थिता भवन्तीति । ये पुनस्तथाभूतज्ञानाभावात् सम्यग्विवेक विकलतया नाद्यापि पूर्वोक्तसमुत्थानवन्तः स्युः ते तथाभृता आचार्यादिभिः सम्यगनुपाल्या यावद्विवेकिनोऽभूवन्नित्येतदयितुमाह- 'एवम्' उता 'तेषाम्' अपरिकर्मितमतीनां 'भगवतो' वीरवर्द्धमानस्वामिनो धर्मे सम्यगनुत्याने सति तत्परिपालनतस्तथा सदुपदेशदानेन परिकर्मितमतित्वं विधेयमिति, अत्रैव दृष्टान्तमाह--द्विजः--पक्षी तस्य पोतः शिशुः द्विजपोतः स यथा तेन द्विजेन गर्भप्रसवात् प्रभृत्यण्डकोच्छ्रनो
॥। ४६१ ॥