SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीआचा राजवृत्तिः (शीलाङ्का.) ॥ ४६२ ॥ ܀܀܀܀܀܀܀ च्नतरमेदादिकास्ववस्थासु यावन्निष्पन्नपक्षस्तावत्पाल्यते एवामाचार्येणापि शिष्यकः प्रवज्यादानादारभ्य सामाचायु पदेशदानेनाध्यापनेन च तावदनुपान्यते यावद्गीतार्थोऽभूत् यः पुनराचार्योपदेशमुल्लङ्घय स्वैरित्वाद्यथा कथञ्चित्क्रियासु प्रवर्त्तते स उज्जयिनीराजपुत्रवद्विनश्येदिति, तद्यथा उज्जयिन्यां जितशत्रो राज्ञो द्वौ पुत्रौ, तत्र ज्येष्ठो धर्म्मघोपाचार्यसमीपे संसारासारतामवगम्य प्रवत्राज; क्रमेण बाधीताचारादिशास्त्रोऽवगततदर्थश्च जिनकल्पं प्रतिपित्सुः द्वितीयां सच्चभावनां भावयति, सा च पञ्चधा -- तत्र प्रथमोपाश्रये द्वितीया तद्बहिः तृतीया चतुष्के चतुर्थी शून्यगृहे पञ्चमी श्मशाने, तत्र पञ्चम भावनां भावयतः स कनिष्ठो भ्राता तदनुरागादाचार्यान्तिकमागत्योवाच--मम ज्यायान् भ्राता वास्ते ?, साधुभिरभाणि--किं तेन ?, स आह- प्रव्रजाम्यहं आचार्येणोक्तो - गृहाण तावत् प्रव्रज्यां पुनर्द्रक्ष्यसि, स तु तथैव चक्रे, पुनरपि पृच्छत आचार्या ऊचुः--किं तेन दृष्टेन ?, नासौ कस्यविदुल्लापमपि ददाति, जिनकल्पं प्रतिपत्तुका प इति, असावाह-- तथाऽपि पश्यामि तावदिति, निर्बन्धे दर्शितः, तूष्णीभावस्थित एव वन्दितः, तदनुरागाच्च निषिद्धोऽप्याचार्येण निवार्यमाणोऽप्युपाध्यायेन त्रियमाणोऽपि साधुमिरसाम्प्रतमेतद्भवतो दुष्करं दुरध्यवसेयमित्येवं कथ्यमानेऽयहमपि तेनैव पित्रा जात इत्यवष्टम्भेन मोहानथैव तस्थौ यथा ज्येष्ठो भ्रातेति, इतरो देवतयाऽऽगस्य वन्दितः, शिक्षकस्तु न वन्दितः, ततोऽसाव परिकर्मितमतित्वात् कुपितः अविधिरितिकृत्वा देवताऽपि तस्योपरि कुपिता सती तलप्रहारेणाक्षिगोलको बहिर्निश्चिक्षेप, ततस्तज्ज्यायान् हृदयेनैव देवतामाह- किमित्ययमज्ञस्त्वया कदर्शितः, तदस्याक्षिणी पुनर्नवीकुरु, सात्ववादीत्-- जीवप्र देशैमुक्ताविमौ गोलको न शक्यो पुनर्नवीकर्त्त इत्युक्त्वा ऋषिवचनमलङ्घनीयमित्य धुता• ६ उद्देशकः ३ ।। ४६२ ।।
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy