SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्रीवाना रावृत्तिः शीलाका.) धुता. उदेशका ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ करेह" 'एवम्' उक्नक्रमेण भावलाघवार्थमुपकरणलाघवं तपश्च करोति इति भावार्थः किं च-'से' तस्योपकरणलाघवेन कर्मलाघवमागमयतः कर्मलाघवेन चोपकरणलाघरमागमयतस्तृणादिस्पर्शानधिसहमानस्य 'तपः' कायक्लेशरूपतया बाह्यमभिसमन्वागतं भवति-सम्यग आभिमुख्येन मोढं भवति । एतच्च न मयोच्यते इत्येतदर्शयितुमाह--'यथा' येन प्रकारेण 'इद' मिति यदुक्तं वक्ष्यमाणं चैतद्भगवता-बोरबर्द्धमानस्वामिना प्रकणादौ वा वेदितं प्रवेदितमिति, यदि नाम भगवता प्रवेदितं ततः किमित्याह-तद्-उपकरणलाघवमाहारलाघवं वा 'अभिसमेत्य' ज्ञात्वा एवकारोऽवधारणे, तदेव लाघवं ज्ञात्वेत्यर्थः, कथमिति चेत् तदुच्यते-'सर्वत' इति द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतः आहारोपकरणादौ क्षेत्रतः सर्वत्रः ग्रामादौ कालतोऽहनि रात्री वा दुर्भिक्षादौ वा सर्वात्मनेति भावतः कृत्रिम कल्काद्यभावेन, तथा 'सम्यक्त्व'मिति प्रशस्तं शोभनं एक सङ्गनं वा तत्त्वं सम्यक्त्वं, यदुक्तम्-"प्रशस्तः शोभनश्चैव एकः सङ्गत एव च । इत्येतैरुपसृष्टस्तु : भावः सम्यक्त्वमुच्यते ॥ १॥" तदेवम्भूतं सम्यक्त्वमेव समत्व पेव वा समभिजानीयात्' सम्यगाभिमुख्येन जानीयात-परिच्छिन्द्यात् , तथाहि-अचेलोऽप्येकचेल. दिकं नावमन्यते, यत उक्तम्"'जोऽवि दुवत्थतिवत्थो एगेण अचेलगो व संथरह । ण हु ते हीलंति परं सब्वेऽवि य ते जिणाणाए ५ योऽपि द्विवस्त्रस्त्रिवस्त्र एकेन अचेलको वा निवहति । नैव दोलयति परं सर्वेऽपि च ते जिनाज्ञायाम ॥ १ ॥ ये खलु विमदृशकल्पाः संहननधृत्यादिकारणं प्राप्य । नाबमन्यते न च होनमात्मान मन्यत तेभ्यः ।। २ ।। सर्वऽप जिनाज्ञायां यथाविधि B कर्मक्षपणार्थ । बिहरन्त्युद्यताः खलु सम्यगभिजानात्येवम् ॥ ३॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ४८६ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy