________________
॥४८५ ॥
मपध्यानं न भवति, धम्मिणोऽभावाद्धाभावः, सति च धम्मिणि धन्वेिषणं न्याय्यमिति सत्पथः, तथेदमपि तस्य न भवत्येव यथा-अपरं वस्त्रमहं याचिष्ये इत्यादि पूर्ववन्ने, योऽपि छिद्रपाणित्वात पात्रनियोगसमन्वितः कल्पत्रयान्यतरयुक्तोऽसावपि परिजीर्णादिसद्भावे तद्गतमपध्यानं न विधत्ते, यथाकृतस्याल्पपरिकर्मणो ग्रहणात्सूचिसूत्रान्वेषणं न करोति । तस्य चाचेलस्याल्पचेलस्य वा तृणादिस्पर्शस्य सद्भावे यद्विधेयं तदाह-तस्य ह्यचेलतया परिवसतो जीर्णवस्त्रादिकृतमपध्यानं न भवति, अथवैतत्स्यात्-तत्राचेलत्वे पराक्रममाणं पुनस्तं साधुमचेलं क्वचिद्ग्रामादौ त्वक्त्राणाभावात् तृणशय्याशायिनं तणाना स्पर्शाः परुषास्तृणैर्वा जनिताः स्पर्शा:-दुःखविशेषास्तुणस्पर्शास्ते कदाचित स्पशन्ति, तांश्च सम्यग अदीनमनस्कोऽतिसहत इति सम्बन्धः, तथा शीतस्पर्शाः स्पृशन्ति-उपतापयन्ति, तेजा-उष्णस्पर्शाः स्पृशन्ति, तथा दंशमशकस्पर्शाः स्पृशन्ति, एतेषां तु परीपहाणामेकतरेऽविरुद्धा देशमशकणस्पर्शादयः प्रादुर्भवेयुः, शीतोष्णादिपरीषहाणां वा परस्परविरुद्धानामन्यतरे प्रादुष्प्युः, प्रत्येक बहुवचननिर्देशश्च तीव्रमन्दमध्यमावस्थासंघचकः, इत्येतदेव दर्शयति-विरूपं-बीभत्सं मनोऽनाहादि विविधं वा मन्दादिभेदादूपं-स्वरूपं येषां ते विरूपरूपाः, के ते?-'
स्पर्शाः' दुःखविशेषाः, तदापादकास्तुणादिस्पर्शा वा, तान् सम्यक्करणेनापध्यानरहितोऽभिसहते, कोऽसौ?-'अचेल:' अपगतचेलोऽम्पचेलो वा अचलनस्वरूपो वा सम्यक्तितिक्षते, किमभिसन्ध्य परीषहानधिसहत इत्यत आह-लघोर्भावो लाघवं, द्रव्यतो भावतश्च, द्रव्यतो झपकरणलाघवं भावतः कमलाघवं 'आगमयन्' अवगमयन् बुध्यमान इतियावद अधिसहते परीषहोपसर्गानिति, नागार्जुनीयास्तु पठन्ति-"एवं खलु से उवगरणलाघवियं तवं कम्मक्खयकारणं
XX
॥४८५।