SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्रीआचा राङ्गवृत्तिः (शीलाङ्का.) ॥ ४८४ ॥ 'एतत्' यत्पूर्वोक्तं वक्ष्यमाणं वा 'खुः' वाक्यालङ्कारे, आदीयते इत्यादानं कर्म्म आदीयते वाऽनेन कम्र्मेस्यादानं - कम्मपादानं तच्च धम्र्मोपकरणातिरिक्तं वक्ष्यमाणं वस्त्रादि तन्मुनिः निर्दोषयितेति सम्बन्धः किम्भूतः १ -- 'सदा' सर्वकालं सुष्ट्वाख्यातो धम्र्मोऽस्येति स्वाख्यातधर्म्मा-संसार भीरुत्वाद्यथारोपितभारवाहीत्यर्थः तथा विधृतः - तुण्णः सम्यग्स्पृष्टः कल्पः- आचारो येन स तथा स एवम्भूतो मुनिरादानं झोषयित्वा आदानमपनेध्यति, कथं पुनस्तदादानं वस्त्रादि स्याद्येन तत् योषयितव्यं भवेदित्याह - अल्पार्थे नञ्, यथाऽयं पुमानज्ञः स्वन्पज्ञान इत्यर्थः, यः साधुर्नास्य चेलं - वस्त्र मस्तीत्यचेलः, अन्पचेल इत्यर्थः, संयमे 'पर्युषितो' व्यवस्थित इति, तस्य भिक्षोः 'नैतद्भवति' मैतत्कल्पते यथा परिजीर्ण मे वस्त्रमचेलकोऽहं भविष्यामि न मे त्वक्त्राणं भविष्यति, ततश्च शीताद्यर्दितस्य किं शरणं मे स्यादिति वस्त्रं विनेत्यतोऽहं कश्चन श्राविकादिकं प्रत्यग्रं वस्त्रं याचिष्ये, तस्य वा जीर्णस्य वस्त्रस्य सन्धानाय सूत्रं याचिष्ये, सूचि च याचिये, अवाप्ताभ्यां च सूचित्राभ्यां जीर्णवस्त्ररन्धं सन्धास्यामि - पाटितं सेविष्यामि, लघु वा सदपरशकललगन त उत्कर्षयिष्यामि, दीर्घ वा सत् खण्डापनयनतो व्युण्कर्षयिष्यामि, एवं च कृतं सत्परिधास्यमि तथा प्राचरिष्यामीत्याद्यायानोपहता असत्यपि जीर्णादिवस्त्रसद्भावे यद्भविष्यताऽध्यवसायिनो धर्मैकप्रवणस्य न भवत्यन्तःकरणवृत्तिरिति, यदिवा जिनकल्पिकाभिप्रायेणैवेतत्सूत्रं व्याख्येयं तद्यथा - 'जे अचेले' इत्यादि, नास्य चेलं वस्त्र मस्तीत्यचेलःअच्छिद्रपाणित्वात् पाणिपात्रः पाणिपात्रत्वात् पात्रादिसप्तविधतभियोगरहितोऽभिग्रहविशेषात् त्यक्तकन्पत्रयः केवलं रजोहरण मुखवस्त्रिकासमन्वितस्तस्याचेलस्य भिक्षोर्नैतद्भवति, यथा- परिजीर्ण मे वस्त्रं छिद्रं पाटितं चेत्येवमादि वस्त्रगत - , घुता • ६ उद्देशका ३ ॥ ४८४ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy