________________
॥ ६६३ ॥
॥ अथ षष्ठ परक्रियाध्ययनम् ॥
अथ षष्ठं परक्रियाभिधं सप्तैककमध्ययनम् । साम्प्रतं पश्चमानन्तरं षष्ठः सप्तैककः समारभ्यते, अस्य चायममिसम्बन्धः - अनन्तरं रागद्वेषोत्पत्तिनिमित्तप्रतिषेधोऽभिहितः, तदिहापि स एवान्येन प्रकारेणाभिधीयते इत्यनेन सम्बन्धेनायातस्यास्य नामनिष्पन्ने निक्षेपे परक्रियेत्यादानपदेन नाम, तत्र परशब्दस्य षड्विधं निक्षेपं दर्शयितुं नियुक्तिकारो गाथाऽर्द्धमाह
कं परइकिक्कं त ? न २ माएस ३ कम ४ बहु ५ पहाणे ६ ।
षट्कं 'पर' इति परशब्दविषये नामादिः षड्विधो निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यादिपरमेकैकं षड्विधं भवतीति दर्शयति, तद्यथा - तत्परम् १ अन्यपरम् २ आदेशपरं ३ क्रमपरं ४ बहुपरं ४ प्रधानपर 8 मिति, तत्र द्रव्यपरं तावत्तद्रूपतयैव वर्त्तमानं - परमन्यत्तत्परं यथा परमाणोः परः परमाणुः १, अन्यपरं स्वन्यरूपतया परमन्यद्, यथा एकाकाद्धलुककादि, एव दूधलुक देवाणुक ज्यणुकादि २, 'आदेशपरम' आदिश्यते - आज्ञाप्यत इत्यादेशः - यः कस्यचिक्रियायां नियोज्यते कर्मकरादिः स चासौ परचादेशपर इति ३, क्रमपरं तु द्रव्यादि चतुर्द्धा तत्र द्रव्यतः क्रमपरमेकप्रदेशिकद्रव्याद् द्विपदेशिकद्रव्यम्, एवं द्वयणुकात्र्यणुकमित्यादि क्षेत्रत एकप्रदेशावगाढाद् द्विप्रदेशावगाढमित्यादि, कालत एकसमयस्थितिकाद् द्विसमयस्थितिकमित्यादि, भावतः क्रमपरमेकगुण कृष्णा द्विगुण कृष्णमित्यादि ४,
॥ ८६३ ॥