________________
.८६१
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀.
॥ अथ पञ्चमरूपाध्ययनम् ॥ अथ पश्चम रूपसप्ककमध्ययनम् । चतुर्थसप्तककानन्तरं पञ्चमं समारभ्यते, अस्य चायमभिसम्बन्धः-महानन्तरं । श्रवणेन्द्रियमाश्रित्य रागद्वेषोत्पत्तिर्निषिद्धा तदिहापि चक्षुरिन्द्रियमाश्रित्य निषिध्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य नामनिष्पन्ने निक्षेपे रूपसप्तैकक इति नाम, तत्र रूपम्य चतुर्धा निक्षेपः नामस्थापने अनादृत्य द्रव्यमावनिक्षेपार्थ नियुक्तिकद् गाथाऽर्द्धमाह
दव्वं संठाणाई भावो वन्न कसिणं सभावो य । दध्वं सहपरिणयं भावो उ गुणा य कित्ती य ॥३२४॥
तत्र द्रव्यं नोआगमतो व्यतिरिक्तं पश्च संस्थानानि परिमण्डलादीनि, भावरूपं द्विधा-वर्णतः स्वभावतच, तत्र वर्णतः कृत्स्नाः पश्चापि वर्णाः, स्वभावरूपं त्वन्तर्गतक्रोधादिवशाग़ मङ्गललाटनयनारोपणनिष्ठावागादिकम् , एतद्विपरीतं प्रसन्न स्येति, उक्तञ्च-रुहस्स खरा विट्ठी उप्पलधवला पसन्नचित्तस्स । दुहियस्स ओमिलायइ गंतुमणस्सु. स्सुआ होइ॥१॥" सूत्रानुगमे सूत्रं, तच्चेदम् -
से भिक्खू वा २ अहावेगइयाई रुवाई पासइ, तंजहा-गंथिमाणि वा वेहिमाणि वा
पूरिमाणि वा संघाइमाणि वा कट्ठकम्माणि वा पोत्थकम्माणि वा चित्तकम्माणि मणि. १ रुष्टस्य खरा दृष्टिः उत्पलधवला प्रसन्नचित्तस्य । दुःखितस्यावम्लायति गन्तुमनस उत्सुका भवति ।।१।।