SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीआचारावृत्तिः (शीलाङ्का.) धुता०६ उद्देशक: २ ॥४८२॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ धर्मोऽनुपाल्यत इत्यत आह-'एष:' अनन्तरोक्तः 'उत्तरवाद' उत्कृष्टवाद इह मानवानां व्याख्यात इति । किं च-- 'अन' अस्मिन् कर्मधुननोपाये संयमे उप-सामीप्येन रत उपरतः तद्-अष्टप्रकारं कर्म 'झोषयन्' झपयन धर्म चरेदिति, किं चापरं कुर्यादित्याह-आदीयत इत्यादानीयं-कर्म तत्परिज्ञाय मृलोत्तरप्रकृतिभेदतो ज्ञात्वा 'पर्यायेण' श्रामण्येन विवेचयति, क्षपयतीत्यर्थः । अत्र चाशेषकर्मधुननासमर्थ तपस्तद्वाह्यमधिकृत्योच्यते-'इह' अस्मिन् प्रबचने 'एकेषां' शिथिलकर्मणामेकचर्या भवति-एकाकिविहारप्रतिमाऽभ्युपगमो भवति, तत्र च नानारूपाणिग्रहविशेषास्तपश्वरणविशेषाश्च भवन्तीत्यतस्तावत्याभृतिकामधिकृत्याह--'तत्र' तस्मिन्नेकाकिविहारे 'इतरे' सामान्यसाधुभ्यो विशिष्टतरा 'इतरेषु' अन्तप्रान्तेषु कुलेषु शुद्धेपणया दशेषणादोषरहितेनाहारादिना 'सर्वैषणये ति सर्वा याऽऽहारायद्गोत्पादनग्रासैपणारूपा तया सुपरिशुद्धेन विधिना संयमे परिव्रजन्ति, बहुत्वेऽप्येकदेशतामाह--स मेधावी मर्यादाव्यवस्थितः संयमे परिव्रजेदिति, किं च-स आहारस्तेधितरेषु कुलेषु सुरभिर्वा स्यात् अथवा दुर्गन्धः, न तत्र रागद्वेषो विदश्यात् , किं च-अथवा तत्रैकाकिविहारित्वे पितृवनप्रतिमाप्रतिपन्नस्य सतो 'भैरवा' भयानका यातुधानादिकृताः शब्दाः प्रादर्भवेयुः, यदिवा 'भैरवा' बीभत्साः 'प्राणा: प्राणिनो दीप्तजिह्वादयोऽपरान् प्राणिनः ‘क्लेशयन्ति' उपतापयन्ति, त्वं तु पुनस्तैः स्पृष्टस्तान् स्पर्शान दुःखविशेषान् 'धीरः' अक्षोभ्यः सन्नतिसहस्व । इतिरधिकार परिसमाप्तौ, ब्रवीमीति पूर्ववत् । धृताध्ययने द्वितीयोद्देशकः परिसमाप्तः ॥ ६-२॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥४८२॥ --: :- -
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy