________________
॥४८१॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
हीरूपा:-याचनाऽचेलादयः, अहीमनसश्च-अलज्जाकारिणः शीतोष्णादयः इत्येतान् द्विरूपानपि परीषहान् सम्यक तितिक्षमाणः परिव्रजेदिति ॥ किंच
चिच्चा सव्वं विसुत्तियं फासे समियदसणे, एए भो णगिणा वुत्ता जे लोगंसि अणागमणधम्मिणो आणाए मामगं धर्म एस ऊत्तरवाए इह माणवाणं वियाहिए, इत्थो वरए तं झोसमाणे आयाणिज्जं परिन्नाय परियाएण विगिंचइ, इह एगेसिं एगचरिया होइ तत्थियरा इयरेहिं कुलेहिं सुद्धसणाए सव्वेसणाए से मेहावी परिव्वए मुभि अदुवा दुभि अदुवा तत्थ भेरवा पाणा पाणे किलेसंति, ते फासे पुट्ठो धीरे अहिया
सिज्जासि तिमि ॥ सू० १८४ ॥ इति द्वितीय उद्देशकः ॥ ६-२॥ त्यक्त्वा सा परीषहकृतां विस्रोतसिका परीषहापादितान् स्पर्शान्-दुःखानुभवान् 'स्पृशेत्' अनुभवेत् सम्यगधिसहेत, स किम्भूतः -सम्यग् इतं-गतं दर्शनं यस्य स समितदर्शन:, सम्यग्दृष्टिरित्यर्थः । तत्सहिष्णवश्च किम्भृताः स्युरित्याह-'भो' इत्यामन्त्रणे 'एते' परीषहसहिष्णवो निष्किञ्चना निर्ग्रन्था भावनग्ना 'उक्ताः' अभिहिताः, यस्मिन्मनुष्यलोके अनागमनं धम्मो येषां तेऽनागमनधर्माणः, यथाऽऽरोपितप्रतिज्ञाभारवाहित्वान्न पुनह प्रत्यागमनेप्सव इति. किंच-आज्ञाप्यतेऽनयेत्याज्ञा तया मामकं धर्म सम्यगनुपालयेत् तीर्थकर एवमाहेति, यदिवा धनिष्ठाय्येवमाह-धर्म एवैको मामकः अन्यत्तु सर्व पारक्यमित्यतस्तमहमाज्ञया-तीर्थकरोपदेशेन सम्यक्रोमीति, किमित्याज्ञया
४८५॥