SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ॥ ८४.१ ॥ ॥ अथ सप्तसप्तिकाख्या द्वितीया चूला ॥ ॥ अथ प्रथमस्थानाध्ययनम् । उक्तं सप्तममध्ययनं, तदुक्तौ च प्रथमचूलाऽभिहिता, इदानी द्वितीया समारम्यते, अस्याश्चायमभिसम्बन्धः-इहानन्तरचूडायां वसत्यवग्रहः प्रतिपादितः, तत्र च कीदृशे स्थाने कायोत्सर्गस्वाध्यायोच्चारप्रश्रवणादि विधेयमित्येतत्प्रतिपादनाय द्वितीयचूडा, सा च सप्ताध्ययनात्मिकेति नियुक्तिकदर्शयितुमाह सत्तिकगाणि इकस्सरगाणि पुव्व भणियं तहिं ठाणं । उहाणे पगयं निसोहियाए तहिं छक्कं ॥३२०॥ ___ 'सप्तककान्येकसराणीति सप्ताध्ययनान्युद्देशकरहितानि भवन्तीत्यर्थः, तत्रापि 'पूर्व प्रथम स्थानाख्यमध्ययनमभिहितमित्यतस्तद्वयाख्यायते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयम्-किंभूतं साधुना स्थानमाधयितव्यमिति, नामनिष्पन्ने तु निक्षेपे स्थानमिति नाम, तस्य च नामादिश्चतर्धा निक्षेपः, तत्रेह द्रव्यमाश्रित्यो स्थानेनाधिकारः, तदाह नियुक्तिकार:-ऊद्धवस्थाने 'प्रकृत' प्रस्ताव इति, द्वितीय-: मध्ययनं निशीथिका, तस्याश्च षट्को निक्षेपः, तं च स्वस्थान एव करिष्यामीति । साम्प्रतं सत्रमुच्चारणीयं, तच्चेदम से भिक्खु वा २ अभिकरखेजा ठाणं ठाइत्तए, से अणपविसिज्जा गाम वा जाव रायहाणिं वा, से जं पुण ठाणं जाणिज्जा-सअंडं जाव समकडासंताणयंत तहप्पगारं ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥८४१॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy