________________
1८३४॥
स मिक्षरागन्तागारादाववग्रहे गृहीते ये तत्र गृहपत्यादयस्तेषां सम्बन्धीन्यायतनानि पूर्वप्रतिपादितान्यतिक्रम्यैतानि च वक्ष्यमाणानि कर्मोपादानानि च परिहृत्यावग्रहमवग्रहीतु जानीयात, अथ मिक्षा सप्तभिः प्रतिमाभिरभिग्रहविरोषेरवग्रह गृह्णीयात , तत्रेयं प्रथमा प्रतिमा, तद्यथा-स भिक्षुरागन्तारादौ पूर्वमेम विचिन्त्येवंभूतः प्रतिश्रयो मया ग्राह्यो नान्यथा| भूत इति प्रथमा। तथाऽन्यस्य च भिक्षोरेवंभूतोऽभिग्रहो भवति, तद्यथा-अहं च खल्वन्येषां साधूनां कृतेऽवग्रह 'गृहीष्यामि' याचिये, अन्येषां वाऽवग्रहे गृहीते सति 'उपालयिष्ये'वत्स्यामीति द्वितीया । प्रथमा प्रतिमा सामान्येन, इयं तु गच्छान्तगतानां साधूनां साम्भोगिकानामसांभोगिकानां चोद्युक्तविहारिणां, यतस्तेऽन्योऽन्यार्थ याचन्त इति । तृतीया त्वियम्-अन्यार्थमवग्रहं याचिष्येऽन्यावगृहीते तु न स्थास्यामीति, एषा वाहालन्दिकानां, यतस्ते सूत्रार्थविशेषमाचार्यादभिकाङ्क्षन्त आचार्याथ याचन्ते । चतुर्थी पुनरहमन्येषां कृतेऽवग्रहं न याचिध्ये अन्यावगृहीते च वत्स्यामीति, इयं तु गच्छ एवाभ्युद्यतविहारिणां जिनकल्पाद्यर्थ परिकर्म कुर्वताम् । अथापरा पञ्चमी-अहमात्मकृतेऽवग्रहमवग्रहीप्यामि न चापरेषां द्वित्रिचतुष्पश्चानामिति, इयं तु जिनकल्पिकस्य । अथापरा षष्ठी-यदीयमवग्रहं ग्रहीष्यामि तदीयमेवोत्कटादिसंस्तारकं ग्रहीष्यामि, इतरथोत्कुटुको वा निषण्णः उपविष्टो वा रजनी गमिष्यामीत्येषा जिनकल्पिकादेरिति । अथापरा सप्तमी-एव पूर्वोक्ता, नवरं यथासंस्तृतमेव शिलादिकं ग्रहीष्यामि नेतरदिति, शेषमात्मोत्कर्षवर्जनादि पिण्डैषणावन्नेयमिति ॥ किञ्च__सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं पंचविहे उग्गहे
.x.४४४४