SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ४७६॥ लगयितव्येति, किंच-'सर्वतः' द्रव्यतो भावतश्च मुण्डो 'रोयमाणः' संयमानुष्ठाने गच्छन्, किम्भूत इत्याह-यः | 18 'अचेल.' अल्पवेलो जिनकल्पिको वा 'पर्युषितः' संयमे उद्युक्तविहारी अन्तप्रान्तभोजी, तदपि न प्रकामतयेत्याह 'संचिक्खइ' संतिष्ठते अवमौदर्ये । न्यूनोदरतायां वर्तमानः सन् कदाचित्प्रत्यनीकतया ग्रामकण्टकैस्तुद्यतेत्येतद्दर्शयितुमाह-'स' मुनिर्वाग्भिराक्रुष्टो वा दण्डादिभिर्हतो वा लुश्चितो वा केशोत्पाटनतः पूर्वकृतकर्मपरिणत्युदयादेतदवगच्छन् सम्यक्तितिक्षमाणः परिव्रजेदिति, एतच्च भावयेत् , तद्यथा- 'पाषाणं च खलु भो कडाणं कम्माणं पुद्धिचिन्नाणं दुप्पडिक्कताणं वेदयित्सा मुक्खो, नस्थि अवेयइत्ता, तवसा वा शोसइत्ता" इत्यादि । कथं पुन- 2 ग्भिराक्रश्यत इत्याह-'पलिअंति कर्म जुगुप्सितमनुष्ठानं तेन पूर्वाचरितेन कुविन्दादिना प्रकथ्य जुगुप्स्यते, तद्यथाभो कोलिक ! प्रव्रजित ! त्वमपि मया सामेवं जल्पसीति, अथवा जकारचकारादिभिपरैः प्रकारे प्रकथ्य निन्दा विधत्ते, एभिर्वा वक्ष्यमाणैः प्रकाररित्याह–'अतथ्यः वितथैरसद्भूतैः शब्दैश्चौरस्त्वं पारदारिक इत्येवमादिकैः स्पर्शेश्च असद्भूतैः साधो कर्तुमयुक्तैः करचरणच्छेदनादिभिः स्वकृतादृष्टफलमित्येतत् ‘सङ्ख्याय' ज्ञात्वा तितिक्षमाणः प्रव्रजेदिति, यदिवा पानां च खलु भोः कृतानां कर्मणां पूर्व दुश्चीर्णानां दुष्पराक्रान्तानां वेदयित्वा मोक्षः, नास्त्यवेदायित्वा, तपसा वा क्षपयित्वा ।
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy