SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ॥७६३ ॥ जाव अभूओवघाइयं अभिकंख भासं भासिज्जा ३॥ सु. ११३॥ स भिक्षुरेवंभूतं शब्दं जानीयात् , तद्यथा-भाषाद्रव्यवर्गणानां वागयोगनिस्सरणात 'पूर्व प्रागभाषा 'भाष्यमाणैव' वागयोगेन. निसृज्यमानैव भाषा, भाषाद्रव्याणि भाषा भवति, तदनेन ताल्चोष्ठादिव्यागारेण प्रागसतः शब्दस्य निष्पादनात्स्फुटमेव कृतकत्वमावेदितं, मृत्पिण्ड--दण्डचक्रादिनेव घटस्येति, सा वोच्चरितप्रध्वंसिन्वाच्छाना भाषणोत्तरकालमप्यभाषेव, यथा कपालावस्थायां घटोऽघट इति, तदनेन प्रागभावप्रध्वंसामागे शब्दस्यावेदिताविति ॥ इदानीं चतमणां भाषाणामभाषणीयामाह--स भिक्षुर्गा पुनरेवं जानीयात, तद्यथा--सत्यां १ मृषा २ सत्यामृषाम् ३ असत्यामृषा ४, तत्र मृषा सत्यामषा च साधूनां तावन्न वाच्या, सत्यापि या कर्कशादिगुणोपेता सा न वाच्या, तां च दर्शयति-सहावद्येन वर्त्तत इति सावद्या तां सत्यामपि न भाषेत, तथा सह क्रियया--अनर्थदण्डप्रवृत्तिलक्षणया वर्त्तत इति सक्रिया तामिति तथा 'कर्कशां' दर्पिताक्षरां तथा 'कटुकां' चित्तोद्वेगकारिणी तथा 'निष्ठुरां' हक्काप्रधानां 'परुषां' मर्मोद्घाटनपराम् 'अण्हयकरिन्ति कर्माश्रवकरीम् , एवं छेदनभेदनकरी यावदपद्रावणकरीमित्येवमादिकां 'भूतोपघातिनी प्राण्युपतापकारिणीम् 'अभिकाक्षय' मनसा पर्यालोच्य सत्यामपि न भाषेतेति ॥ भाषणीयां त्वाह--स भिक्षुर्यां पुनरेवं जानीयात् , तद्यथा-या च भाषा सत्या 'सूक्ष्मे ति कुशाग्रीयया बुद्धया पर्यालोच्यमाना मषाऽपि सत्या भवति यथा सत्यपि मगदर्शने लुब्धकादेरपलाप इति, उक्तञ्च–'अलिअंन भासिअन्वं अत्थि हु सच्चपि जं न वत्तव्वं । १ अलीकं न भाषितव्यं अस्त्येव सत्यमपि यन्न वक्तव्यम् । सत्यमपि भवत्यलीकं यत् परपीडाकरं वचनम् ॥ १ ॥ ॥७३॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy