________________
निक्षेपार्थ नियुक्तिकृदाहजह वक्कं तह भासा जाए छक्कं च होइ नायव्वं । उप्पत्तीए १ तह पजवं २ तरे ३जायगहणं ४ य॥३१॥ ___ यथा वाक्यशुद्धयध्ययने वाक्यस्य निक्षेपः कृतस्तथा भाषाया अपि कर्तव्यः, जातशब्दस्य तु पटकनिक्षेपोऽयं ज्ञातव्योनाम १ स्थापना २ द्रव्य ३ क्षेत्र ४ काल ५ भाव ६ रूपः, तत्र नामस्थापने क्षुण्णे, द्रव्यजातं तु आगमतो नोआगमतः, व्यतिरिक्तं नियुक्तिकारो गाथापश्चाद्वैन दर्शयति-तच्चतुर्विधम, उत्पत्तिजातं १ पर्यवजातम् २ अन्तरजातं ३ ग्रहणजातं ४, तत्रोत्पत्तिजातं, नाम यानि द्रव्याणि भाषावर्गणान्तःपातीनि काययोगगृहीतानि वाग्योगेन निसष्टानि भाषात्वेनोत्पद्यन्ते तदुत्पत्तिजातं, यद्रव्यं भाषात्वेनोत्पन्नमित्यर्थः१, पर्यवजातं तैरेव वाग्निसृष्टभाषाद्रव्यैर्यानि विश्रेणिस्थानि भाषावर्गणान्तर्गतानि निसृष्टद्रव्यपराघातेन भाषापर्यायत्वेनोत्पद्यन्ते तानि द्रव्याणि पर्यवजातमित्युच्यते २, यानि त्वन्तराले समश्रेण्यामेव निसृष्टद्रव्यमिश्रितानि भाषापरिणामं भजन्ते तान्यन्तरजातमित्युच्यते ३, यानि पुनद्रव्याणि निसष्टसमश्रेणिविश्रेणिस्थानि भाषात्वेन परिणतानि कर्णशष्कुलीविवरप्रविष्टानि गृह्यन्ते तानि चानन्तप्रदेशिकानि द्रव्यतः क्षेत्रतोऽसङ्ख्येयप्रदेशावगाढानि कालत एकद्विच्यादियावदसङ्ख्येयसमयस्थितिकानि भावतो वर्णगन्धरसस्पर्शवन्ति तानि चैवंभूतानि ग्रहणजातमित्युच्यते ४ । उक्तं द्रव्यजातं, क्षेत्रादिजातं तु स्पष्टत्वानियुक्तिकारेण नोक्तं, तच्चैवंभूत-यस्मिन् केत्रे भाषाजातं व्यावय॑ते यावन्मानं वा क्षेत्र स्पृशति तत्क्षेत्रजातम् , एवं कालजातमपि, भावजातं तु तान्येवोत्पत्तिपयवान्तरग्रहणद्रव्याणि श्रोतरि यदा शब्दोऽयमिति बुद्धिमुत्पादयन्तीति । इह त्वधिकारो द्रव्य
॥७८७॥