________________
धुता.
उद्देशक: २
श्रीआचा
राजवृत्तिः (शीलाका.) ॥ ४७६ ॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
तद्विपर्ययेणानुवसु सगग इत्यर्थः, यदिवा वसुः-साधुः अनुवसुः-श्रावका, तदुक्तम्-'वीतरागो वसुज्ञेयो, जिनो वा संयतोऽथवा। सरागो धनुवसुःप्रोका, स्थविरः पावकोऽपि वा ॥१॥" तया ज्ञात्वा 'धम्म' श्रुतचारित्राख्यं यथातथावस्थितं धर्म प्रतिपद्याप्यथैके मोहोदयात्तथाविधभवितव्यतानियोगेन 'त' धर्म प्रति पालयितुन शक्नुवन्ति, किंभृताः १-कुत्सितं शीलं येषां ते कुशीला इति, यत एव धर्मपालनाशक्ता अत एव कुशीलाः ॥ एवम्भूताश्च सन्तः किं कुयु रित्याह
पत्थं पडिग्गहं कंबलं पायपुछणं विउसिज्जा, अणुपुव्वेण अणहियासेमाणा परीसहे दुरहियासए, कामे ममायमाणस्स इयाणि वा मुहत्तण वा अपरिमाणाए भेए, एवं
से अंतराएहिं कामेहिं आकेवलिएहिं अपना चेए । सू० १८२॥ केचिद्भवशतकोटिदुरापमवाप्य मानुषं जन्म समासाद्यालब्धपूर्वां संसारार्णवोत्तरणप्रत्यला बोधिद्रोणीमङ्गीकृत्य मोक्ष| तरुबीनं सर्वविरतिलक्षणं चरणं पुनदुर्मिवारतया मन्मथस्य पारिसवतया मनसो लोलुपतयेन्द्रियग्रामस्यानेकभवाभ्यासा- 8 पादितविषयमधुरतया प्रबलमोहनीयोदयादशुभवेदनीयोदयासन्नप्रादुर्भावादयशःकीयुत्कटतया अवगणय्याऽऽयतिमविचार्य कार्याकार्य उररीकृत्य महाव्यसनसागरं साम्प्रनेक्षिनयाऽधाकृतकुलक्रमाचारास्तत्त्यजेयुः, तत्यागश्च धर्मोपकरणपरित्यागाद्भवतीत्यतस्तदर्शयति-वस्त्रमित्यनेन क्षौमिकः कल्पो गृहीतः, तथा 'पतद्ग्रहः' पात्रं कम्बलं' औणिक कल्पं पात्रनिर्योग वा 'पावपुञ्छनक' रजोहरणं एतानि निरपेक्षतया व्युत्सृज्य कश्चिद्देशविरतिमभ्युपगच्छति, कश्चिद्दर्शनमेवाल
॥ ४७६ ॥