________________
॥४७५॥
नामासौ 'तत्र' तस्मिन् गृहवासे सर्वनिकारास्पदे नरकप्रतिनिधौ शुभद्वारपरिघे रमते ?, कथं गृहवासे द्वन्द्वैकहेतौ | विघटितमोहकपाटः सन् रति कुर्यादिति ? । उपसंहारमाह-'एतत्' पूर्वोक्तं ज्ञानं सदा आत्मनि 'सम्यगनुवासये: व्यवस्थापयेः, इतिरधिकारपरिसमाप्तौ, नवीमीति पूर्ववत् । धूताध्ययनस्य प्रथमोद्देशकः समाप्तः ॥ ६-१॥
॥ अथ षष्ठाध्ययने द्वितीयोद्देशकः ॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरम्पते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके निजकविधूनना प्रतिपादिता, सा चैवं फलवती स्याघदि कर्मविधुननं स्याद्, अतः कर्मविधननार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि स्त्रम्
आउर लोगमायाए चइत्ता पुव्वसंजोगं हिचा उवसमै पसित्ता बंभचेरंसि वसु वा .
अणुवसु वा जाणितु धम्मं अहा तहा अहेगे तमचाइ कुसीला ॥ सू० १८१ ॥ 'लोक' मातापितापुत्रकलत्रादिक तमातुर स्नेहानुषणतया वियोगात् कायर्यावसादेन वा यदि वा जन्तुलोक कामरागा. तुरम आदाय' ज्ञानेन 'गृहीत्वा' परिच्छिय तथा त्यक्त्वाः च 'पूर्वसंयोगं मातापित्रादिसम्बन्धं, तथा 'हित्वा' गत्वोपशम उषित्वापि ब्रह्मचर्ये, किम्भूतः सन्निति दर्शयति-वसु द्रव्यं तद्भूतः कषायकालिकादिमलापगमाद्वीतराग इत्यर्थः
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥४७५॥