________________
भीआचाराजवृचिः (शीलाङ्का.)
॥ ७७२ ।।
॥ अथ तृतीये ईर्याध्ययने द्वितीयो शकः ॥
उक्तः प्रथमोद्देशकोऽधुना द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशके नावि व्यवस्थितस्य विधिरभिहितस्तदिहापि स एवाभिधीयते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् —
से णं परो णावागओ नावागयं वइज्जा - आउसंतो समणा ! एयं ता तुमं छतगं वा जाव चम्मठेपणगं वा गिण्हाहि, एयाणि तुमं विरूवरूवाणि सत्थजायाणि धारेहि. एयंता तुमं दारगं वा पज्जेहि, नो से तं परिण्णं परिजाणिजा तुसिणोओ उवेहेजा ॥ सू० १२० ॥
सः ' पर : ' गृहस्थादिर्नावि व्यवस्थितस्तत्स्थमेव साधुमेवं ब्रूयात्, तद्यथा - आयुष्मन् ! श्रमण ! एतन्मदीयं तावच्छत्रकादि गृहाण, तथैतानि 'शस्त्रजातानि' आयुधविशेषान् धारय, तथा दारकाद्युदकं पायय, इत्येतां 'परिज्ञां' प्रार्थनां परस्य न शृणुयादिति ॥ तदकरणे च परः प्रद्विष्टः सन् यदि नावः प्रचिपेत्तत्र यत्कर्त्तव्यं तदाह
से णं परो नावागए नावागयं वएज्जा आउसंतो ! एस णं समणे नावाए भंडभारिए भवइ, से णं बहाएं गहाय नावाओ उदगंसि पक्खिविजा, एयप्पगारं निग्घोसं सुच्चा निसम्म से य चीवरधारो सिया विप्पामेव चोवराणि उब्वेदिज्ज वा निवेदिज्ज वा
श्रुतस्कं० २ चूलिका० १ ईष० ३ उद्देशका २
।। ७७२ ।।