________________
॥ ७६७ ॥
प्रात्यन्तिकानि दस्यूनां - चौराणामायतनानि - स्थानानि 'मिलक्कूणि 'त्ति वर्चरशवर पुलिन्द्रादिम्लेच्छप्रधानानि 'अनार्याणि' अर्द्धषड्िंवचजनपदबाह्यानि 'दुः सज्ञाप्यानि दुःखेनार्यसञ्ज्ञां ज्ञाप्यन्ते, तथा 'दुष्प्रज्ञाप्यानि ' दुःखेन धर्मसञ्ज्ञोपदेशेनानार्थ सङ्कल्पान्निवर्त्यते 'अकालप्रतिबोधीनि' न तेषां कश्चिदपर्यटनकालोऽस्ति, अर्द्धरात्रादावपि मृगया गमनसम्भवात् तथाऽकाल मोजीन्यपीति, सत्यन्यस्मिन् ग्रामादिके विहारे विद्यमानेषु चान्येष्वार्यजनपदेषु न तेषु म्लेच्छस्थानेषु विहरिष्यामीति गमनं न प्रतिपद्येत, 'किमिति ?, यतः केवली त्र् यात्कर्मोपादानमेतत्, संयमात्मविराधनातः, तत्रात्मविगधने संयमविराधनाऽपि संभवतीत्यात्मविराधनां दर्शयति – 'ते' म्लेच्छाः 'णम्' इति वाक्यालङ्कारे एवमृचुः, तद्यथा-अयं स्तेनः, अयमुपचरकः- चरोऽयं तस्मादस्मच्छत्रुग्रामादागत इतिकृत्वा वाचाऽऽक्रोशयेयुः, तथा दण्डेन ताडयेयुः यावज्जीविताद्वयपरोपयेयुः, तथा वस्त्रादि 'आच्छिन्द्युः' अपहरेयुः, ततस्तं साधु निर्द्धाटयेयुरिति । अथ साधून पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूतेषु म्लेच्छस्थानेषु गमनार्थं न प्रतिपद्यते, ततस्तानि परिहरन् संयत एव ग्रामान्तरं गच्छेदिति ॥ तथा
सेभिक्खू वा २ गामाणुगामं दूइजमाणे अंतरा से अशयाणि वा गणरायाणि वा जुवरायाणि वा दोरजाणि वा वेरजाणि वा विरुडरज्जाणि वा सह लाढे विहाराए संथरमाणेणि जणवएहिं नो विहारवडियाए पवज्जेज गमणाए, केवली बूया आयाणमेयं, तेणं बाला भयं तेणं तं चेव जाव गमणाए तओ संजयामेव गामाणुगामं दूह
॥ ७६७ ॥