________________
॥७६१॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
वेकस्मात्संयमस्थानादपरं संयमस्थानं गच्छतः संयमेर्या भवति, चरणर्या तु 'अभ्र वभ्रमभ्र चर गत्यर्थाः' चरते वे ल्युट चरणं तद्रूपेर्या चरणेर्या, चरणं गतिर्गमनमित्यर्थः, तच्च श्रमणस्य 'कथं' केन प्रकारेण भावरूपं गमनं निर्दोष । भवति ? इति ॥ आहआलंषणे य काले मग्गे जयणाइ चेव परिसुद्ध। भंगेहिं सोलसविहंज परिसुड पसत्थं तु ॥३०॥
'आलम्बनं प्रवचनसगच्छाचार्यादिप्रयोजनं 'काल' साधूनां विहरणयोग्योऽवसरः 'मार्गः' जनैः पदभ्यां क्षण: पन्थाः 'यतना उपयुक्तस्य युगमात्रदृष्टित्वं, तदेवमालम्बनकालमार्गयतनापदेरेकैकपदव्यभिचाराद् ये भङ्गास्तैः षोडशविधं गमनं भवति ॥ तस्य च यत्परिशुद्धं तदेव प्रशस्तं भवतीति दर्शयितुमाह- ... चउकारणपरिसुद्धं अहवावि होज कारणज्जाए। आलंबणजयणाए काले मग्गे च जइयव्वं ॥३०॥
चतुर्भिः कारणैः साधोर्गमनं परिशुद्धं भवति, तद्यथा-आलम्बनेन दिवा मार्गेण यतनया गच्छत इति, अथवाऽकालेऽपि ग्लानाद्यालम्बनेन यतनया गच्छतः शुद्धमेव गमनं भवति, एवंभूते च मार्गे साधुना यतितव्यमिति, ॥ उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतमुद्देशार्थाधिकारमधिकृत्याह
सव्वेवि ईरियविसोहिकारगा तहवि अत्थि उ विसेसो । उद्देसे उद्देसे वुच्छामि जहकमं किंचि ॥१०॥ ___ 'सर्वेऽपि त्रयोऽपि यद्यपीर्याविशुद्धिकारकास्तथाऽपि प्रत्युद्देशकमस्ति विशेषः, तं च यथाक्रम किश्चिद्वक्ष्याम इति ॥ यथाप्रतिज्ञातमाह
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ܝ
॥ ७६१॥