SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ .७५५ ॥ नान्यत आनीय तत्र शयिष्य इति तृतीया ३ तदपि फलहकादिक यदि यथासंस्तृतमेवास्ते ततो ग्रहीष्यामि नान्यथेति चतुर्थी प्रतिमा ४। आसु च प्रतिमास्वाद्ययोः प्रतिमयोगच्छनिर्गतानामग्रहः, उत्तरयोरन्यतरस्यामभिग्रहः, गच्छान्तर्गताना तु चतस्रोऽपि कल्पन्त इति, एताश्च यथाक्रम सूत्रैर्दर्शयति-तत्र खल्विमा प्रथमा प्रतिमा तद्यथा-उद्दिश्योद्दिश्येकडादीनामन्यतमद्ग्रहीष्यामीत्येवं यस्याभिग्रहः सोऽपग्लाभेऽपि न प्रतिगृह्णीयादिति, शेषं कण्ठ्यं नवरं 'कठिनं' वंशकटादि 'जन्तुक' तृणविशेषोत्पन्न 'परक' येन तृणविशेषेण पुष्पाणि अध्यन्ते 'मोरगं ति मयूरपिच्छनिष्पन्नं 'कुचगं'ति येन कूर्चकाः क्रियन्ते, एते चैवंभृताः संस्तारका अनूपदेशे सार्दादिभूम्यन्तरणार्थमनुज्ञाता इति ॥ अहावरा दुच्चा पडिमा-से भिक्खू वा २ पेहाए संथारगं जाइजा, तंजहा-गाहावई वा कम्मकरिं वा से पुवामेव आलोइजा-आउसो ! त्ति वा भणी त्ति वा ! दाहिसि मे जाव पडिगाहिज्जा, दुचा पडिमा २ ॥ अहावरा तच्चा पडिमा-से भिक्ख वा २ जस्सुवस्सए संवसिजा जे तत्थ अहासमन्नागए, तंजहा-इकडे वा जाव पलाले हवा तस्स लाभे संवसिज्जा तस्सालाभे उक्कुडुए वा नेसज्जिए वा विहरिजा तच्चा पडिमा ३॥ सू० १०१॥ अत्रापि पूर्ववत्सर्वं भणनीयं, यदि परं तमिक्कडादिकं संस्तारकं दृष्वा याचते नादृष्टमिति ॥ एवं तृतीयाऽपि नेया, यांस्तु विशेष:-गच्छान्तर्गतो निर्गतो वा यदि वसतिदातैव संस्तारकं प्रयच्छति ततो गृह्णाति, तदभावे उत्कटुको वा
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy