________________
॥ ४७३ ॥
'कामेच्छान्धा अपरान् प्राणिनः परितापयेयुः इत्यादिना प्रक्रमेणेति ॥ तदेवं रोगकामातुरतया सावद्यानुष्ठानप्रवृतानामुपदेशदान पुरस्सरं महाभयं प्रद्र्श्य तद्विपर्यस्तानां सस्वरूपां गुणवत्ता दिदर्शयिषुः प्रस्तावमार चयन्नाह -
आया भो ! भो धूयवायं पवेयइस्सामि (धूतोवायं पवेयंति) इह खलु अत्तत्ता तेहिं तेहिं कुलेहिं अभिसेएण अभिसंभूया अभिसंजाया अभिनिव्वुडा अभिसंबुड्डा अभिसंबुद्धा अभिनिक्कंता अणुपुव्वेण महामुनी ॥ सू० १७९ ॥
“भोः” इति शिष्यामन्त्रणे, यदहमुत्तरत्रा वेदयिष्यामि भवतस्तद् 'आजानीहि ' - अवधारय, 'शुश्रूषस्व' श्रवणेच्छां विधेहि 'भो:' इति पुनरप्यामन्त्रणमर्थ गरीयस्त्वख्यापनाय, नात्र भवता प्रमादो विधेयो, धूतवादं कथयिष्याम्यहं धृतम्अष्टप्रकार कर्म्मधूननं ज्ञातिपरित्यागो वा तस्य वादो धूतवादः तं प्रवेदयिष्यामि, अवहितेन च भवता भाव्यमिति । नागार्जुनीयास्तु पठन्ति - "धूतोवायं पवेयंति" अष्टप्रकार क धूननोपायं निजधूननोपायं वा प्रवेदयन्ति तीर्थकरादयः । कोऽसावुपाय इत्यत आह- 'इह' अस्मिन् संसारे 'खलुः" वाक्यालङ्कारे आत्मनो माव आत्मता - जीवास्तिता स्वकृतकर्म्मपरिणतिर्वा तयाऽभिसम्भूताः सञ्जाताः, न पुनः पृथिव्यादिभूतानां कायाकारपरिणामतया ईश्वरप्रजापतिनियोगेन घेति तेषु तेषूच्चावचेषु कुलेषु यथास्वं कम्र्म्मोदयापादितेषु 'अभिषेकेपा' शुक्रशोणितनिषेकादिक्रमेणेति, तत्रायं क्रमः-- "सप्ताहं कललं विन्द्यात्ततः सप्ताहमवु दम् । अबु दाज्जायते पेशी, पेशीतोऽपि धनं भवेत् ॥ १ ॥" इति, तत्र यावत्कललं तावदभिसम्भूताः, पेशीं यावदभिसञ्जताः, ततः साङ्गोपाङ्गस्नायुशिरोरोमादिक्रमाभिनि
॥ ४७३ ॥