________________
धुता.
रूपेषु 'मानवाः पुरुषा इत्यतो न पुनरुक्तदोषानुषङ्गः । कामासक्ताच बदवाप्नुवन्ति तदाह-बलरहितेन निःसारेण श्रीआचा
तुषमुष्टिकल्पनौद्रारिकेण शरीरेण 'प्रभंगुरेण स्वत एव भङ्गशीलेन तत्सुखाधानाय कर्मोपचित्याऽनेकशो वधं गच्छन्ति | राजवृत्तिः
उद्देशका १ कः पुनरसौ विपाककटुकेषु कामेषु यो रतिं विदध्यादित्याह-मोहोदयादातः, अगणितकार्याकार्यविवेकः सोऽसुमान्बहु शीलासा.)
दुःखं प्राप्तव्यमनेनेति बहुदुःख इत्येनं कामानुषङ्ग प्राणिनां क्लेशं वा 'बालो' रागद्वेषाकुलितः प्रकर्षण करोति प्रकरोति, H४७२॥ तज्जनितकर्मविपाकाच्च अनेकशो वधं गच्छति, यदिवा रोगेषु सत्सु इत्येतद्वक्ष्यमाणं बॉलोऽज्ञः प्रकरोति तदाह-एतान्
गण्डकुष्ठराजयक्ष्मादीन रोगान बहुनूत्पन्नानिति ज्ञात्वा तद्रोगवेदनया आतुराः सन्त: चिकित्सायै प्राणिनः परितापयेयुः, 8 'लावादिपिशिताशिनः किल क्षयव्याध्युपशमः स्यादित्यादिवाक्याकर्णनाज्जीविताशंया गरयस्यपि प्राण्युपमर्देश
प्रवर्तेरन्, नैतदवधारयेयुः यथा-स्वकृतावन्ध्यकर्मविपाकोदयादेतत् , तदुपशमाच्चोपशमः, प्राण्युपमर्दचिकित्सया च किल्मिषानुषङ्ग एवेति, एतदेवाह-पश्यैतद्विमलविवेकावलोकनेन यथा 'नालं' न समर्थाः चिकित्साविधयः कर्मोदयोंपशमं विधातु, यद्येवं ततः किं कर्तव्यमिति दर्शयति-'अलं' पर्याप्त 'तव' सदसद्विवेकिनः 'एभिः' पापोषादानभूतश्चिकित्साविधिभिरिति । किं च-एतत् प्रण्युपमर्दादिकं 'पश्य' अवधारय हे 'मुने! जगत्त्रयस्वभाववेदिन, महत्-बृहद्भयहेतुत्वाद्भय, यद्येवं ततः किं कुर्यादिति दर्शयति–नातिपातयेत्' न हन्यात् कश्चन प्राणिनं, यत एक स्मिमपि प्राणिनि-इन्यमानेऽष्टप्रकारमपि कर्म बध्यते, तच्चानुत्तारसंसारगमनायेत्यतो महाभयमिति, यदिवा एए रोगे
॥४७२॥ बहू णच्चेत्यादिको प्रन्थः कामानधिकृत्य नेयः, एतान् रोगरूपान् कामान् बहून् ज्ञात्वा आसेवनाप्रज्ञयेति आतुरा: