SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ॥४७१ ॥ स्पर्शान-दाखविशेषान 'प्रतिसंवेदयति' अनुभवति । एतच्च तीर्थकृद्भिरावेदितमित्याह-'धु: तीर्थकृद्धिः 'एतद्' | अनन्तरोक्तं प्रकणादौ वा वेदितं प्रवेदितम् । एतच्च वक्ष्यमाणं प्रवेदितमित्याह-'सन्ति' विद्यन्ते 'प्राणाः' प्राणिनो 'वासकाः' 'वास शब्दकुत्सायो' वासन्तीति वासका:-भाषालब्धिसम्पन्ना द्वीन्द्रियादयः, तथा रसमनुगच्छन्तीति । रसगा:-कटुतिक्तकषायादिरसवेदिनः संजिन इत्यर्थः, इत्येवम्भूतः कर्मविपाकः संसारिणां सम्प्रेक्ष्य इति सम्बन्धः, तथाA 'उदके उदकरूपा एवैकेन्द्रिया जन्तवः पर्याप्तकापर्याप्तकमेदेन व्यवस्थिताः, तथा उदके चरन्तीत्युदकचरा:-पूतरकच्छेद नकलोइणकत्रसा मत्स्यकच्छपादयः, तथा स्थलजा अपि केचन जलाश्रिता महोरगादयः पक्षिणश्च केचन तद्गतवृत्तयो द्रष्टव्या, अपरे तु आकाशगामिनः पक्षिणा, इत्येवं सर्वेऽपि 'प्राणा: प्राणिनोऽपरान् प्राणिनः आहाराद्यर्थ मत्सरादिना वा 'क्लेशयन्ति' उपतापयन्ति । यद्येवं ततः किमित्यत आह–'पझ्य' अवधारय 'लोके' चतुर्दशरज्वात्मके, कर्मविपाकात्सकाशात् 'महद्भयं नानागतिदुःखक्लेशविपाकात्मकमिति ॥ किमिति कर्मविपाकान्महद्भयमित्याह-- बहुदुक्खा हुजन्तवो, सत्ता कामेसु माणवा, अबलेण वहं गच्छन्ति सरीरेणं पभंगुरेण अट्टे से बहुदुक्खे इह पाले पकुव्वइ एए रोगा बहू नच्चा आजरा परियावए नालं पास, अलं तवेएहिं एवं पास मुणी ! महन्भयं नाइवइज कंचण ॥ सू०१७ ॥ बहनि दुःखानि कर्मविपाकापादितानि येषां जन्तूनां ते तथा, हुर्यस्मादेवं तस्मात्तत्राप्रमादवता भाव्यं । किमित्येवं । ||४७१. भूयो भूयोऽपदिश्यत इत्यत आह-यस्मादनादिभवाम्यासेनागणितोत्तरपरिणामाः 'सक्ताः' गृद्धाः 'कामेषु' इच्छामदन
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy