SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शीलाङ्का.) ॥ ७४६ ॥ तद्यथा--प्रचुरान्नपानोऽयं ग्रामोऽतोऽत्र भवता वसतिमभिगृद्य स्थातु' युक्तमित्येवमभिहितः सन्नेवमाचक्षीत--न केवलं पिण्डपातः प्रासुको दुर्लभस्तदवाप्तावपि यत्रासौ भुज्यते स च प्रासुकः--आधाकर्मादिरहितः प्रतिश्रयो दुर्लमः, 'उंछ' इति छादनाद्युत्तरगुणदोषरहितः, एतदेव दर्शयति- 'आहेस णिज्जेत्ति यथाऽसौ मूलोत्तरगुणदोषरहितत्वेनैपणीयो भवति तथाभृतो दुर्लभ इति, ते चामी मूलोत्तरगुणाः - ""पडी वंसो दो धारणाओ चत्तारि मूलवेलीओ । मूलगुणेहिं विसुडा एसा आहागडा वसही ॥ १ ॥ वंसगकडणोककंपण छायण लेवण दुआरभूमीओ । परिकम्मविषमुक्का एसा मूलुत्तरगुणे ॥ २ ॥ दूमिअधूमि अवासिअउज्जोवियबलिकडा अ वत्ता य। सित्ता सम्मावि अ विसोहिकौडीगया वसही ॥ ३ ॥ " अत्र च प्रायशः सर्वज्ञ सम्भवित्वादुत्तरगुण नां तानेव दर्शयति, न चासौ शुद्धो भवत्यमीभिः कर्मोपादानकर्मभिः, तद्यथा - 'छादनतः दर्भादिना, 'लेपनतः ' गोमयादिना संस्तारकम् - अपवर्त्तकमाश्रित्य तथा द्वारमाश्रित्य बृहन्लघुत्वापादानतः, तथा द्वारस्थगनं- कपाटमाश्रित्य तथा पिण्डपातैषणामाश्रित्य तथाहि--कस्मिंश्चित्प्रतिश्रये प्रतिवसतः साधून शय्यातरः पिण्डेनोपनिमन्त्रयेत् तद्ग्रहे निषिद्धाचरणमग्रहे तत्प्रद्वेषादिसम्भव १ पृष्ठिर्वंशो द्व े धारणे चतस्रो मूलवेल्य: । मूलगुणै विशुद्धा एषा यथाकृता वसतिः ॥ १॥ वंशक कटनो कम्पनच्छादनलेपनं द्वारभूमेः । परिकर्मविप्रमुक्ता एषा मूलोत्तरगुणैः ।। २ ।। वषलिता धूपिता वासिता उद्योतित। कृतवलिकाच व्यक्ता च । सिक्का मृष्टाऽपि च विशोधिकोटीगता वस्रतिः ॥ ३ ॥ ܀܀܀܀܀܀ श्रुत० २ चूलिका २ शय्यैष० २ उद्देशकः ३ ܀܀܀܀܀ ॥ ७४६ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy