________________
॥ ७३५ ॥
॥ अथ द्वितीय - शय्यैषणाध्ययने द्वितीयो६ शकः ॥
उक्तः प्रथमोद्देशकः, अधुना द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरो देशके सागारिकप्रतिबन्डवसतिदोषाः प्रतिपादिताः, इहापि तथाविधवसतिदोषविशेषप्रतिपादनायाह
गाहावई नामेगे सुहसमायारा भवंति से भिक्खू य असिणाणए मोयसमायारे से तरगंधे दुग्गंधे पडिकूले पडिलोमे यावि भवइ, जं पुव्वं कम्मं तं पच्छा कम्मं जं पच्छा कम्मं तं पुरे कम्मं तं भिक्खपडियाए वट्टमाणा करिजा वा नो करिज्जा वा, अह भिक्खूणं पुवीवहट्ठा जाव जं तहप्पगारे उवस्सए नो ठाणं वा जाव चेइज्जा ॥ सू० ७२ ॥ 'एके' केचन गृहपतयः शुचिः समाचारो येषां ते तथा, ते च भागवतादिभक्ता भवन्ति भोगिनो वा - चन्दनागुरुकुङ्कुमकर्पूरादिसेविनः, भिक्षुश्चास्नानतया तथाकार्यवशात् 'मोया'त्ति कायिका तत्समाचरणात्स भिक्षुस्तद्गन्धो भवति, तथा च दुर्गन्धः, एवंभूतश्च तेषां गृहस्थानां 'प्रतिकूलः' नानुकूलोऽनभिमतः, तथा 'प्रतिलोमः' तद्गन्धाद्विपरीतगन्धो भवति, एकार्थौ तावतिशयानभिमतत्वख्यापनार्थावुपात्ताविति तथा ते गृहस्थाः साधुप्रतिज्ञया यत्तत्र भोजनस्वाध्यायभूमौ स्नानादिकं पूर्वं कृतवन्तस्तत्तेषामुपरोधात्पश्चात्कुर्वन्ति यद्वा पश्चात्कृतवन्तस्तत्पूर्वं कुर्वन्ति, एवमवसर्पणोत्सर्पणक्रियया साधूनामधिकरणसम्भवः, यदिवा ते गृहस्थाः साधुपरोधात्प्राप्तकालमपि भोजनादिकं न कुर्युः, ततश्चान्तराय
11934 11