SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ भीआचागावृत्तिः श्रीलाङ्का.) | श्रुतस्कं०२ चूलिका.. पिण्डैष.. उद्देशका .६८२ ॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ यथा-मैवं कृथास्त्वमिति, यदि पुनरसौ गृहस्थो हस्तादिकं सचित्तोदकेन प्रक्षाल्य दद्यात्तदप्रासुकमिति ज्ञात्वा न प्रतिगृह्णीयादिती ॥ किश्च-अथासौ भिक्षर्ग हपतिकुलं प्रविष्टः सन् यदि पुनरेवं विजानीयात , तद्यथा-'नो' नैव साधुभिक्षादानार्थ पुरः-अग्रतः कृतं प्रक्षालनादिकं कम-क्रिया यस्य हस्तादेः स तथा तेनोदकेनाद्रेणेति-गलद्विन्दुनेति, एतदुक्तं भवति-साधुभिक्षादानार्थ नैव हस्तादिकं प्रक्षालितं किन्तु तथाप्रकार एव स्वतः कुतोऽप्यनुष्ठानादुदकाो हस्तस्तेन, एवं मात्रादिनाऽपि गलद्विन्दुना दीयमानं चतुर्विधमप्याहारमप्रासुकमनेषणीयमिति मत्वा नो गलीयादिति ॥ अथ पुनरेवं विजानीयात् , तद्यथा-नैव 'उदकाण' गलविन्दुना हरतादिना दद्यात , किन्तु 'सस्निग्धेन' शीतोदकस्तिमितेनापि हस्तादिना दीयमानं न प्रतिगृह्णीयात् , 'एव'मिति प्राक्तनं न्यायमतिदिशति, यथोदकस्निग्धेन हस्तेन न ग्राह्य तथाऽन्येन रजमाऽपि, एवं मृत्तिकाद्यप्यायोज्यमिति, तत्रोष:-क्षारमृत्तिका हरितालहिङगुलकमनःशिलाऽञ्जनलवणगेरुकाः प्रतीताः, सचिताश्च खनिविशेषोत्पत्तेः, वर्णिका--पीतमृत्तिका, सेटिका--खटिका, सोराष्ट्रिका-तुबरिका, पिष्टम्अच्छटिततन्दुचूर्णः, कुक्कुसा:--प्रतीताः, 'उक्कुटुंति पीलुपर्णिकादेरदूखलचूर्णितमार्द्रपर्णचूर्णमित्येवमादिना सस्निग्धेन हस्तादिना दीयमानं न गृह्णीयात् , इत्येवमादिना तु असंसष्टेन तु गह्णीयादिति । अथ पुनरेवं जानीयान्नोऽसंसृष्टः किं तहि ?-संसृष्टस्तज्जातीयेनाहारादिना तेन संसृष्टेन हस्तादिना प्रासुकमेषणीयमिति गृह्णीयात् , अत्र चाष्टौ मङ्गाः, तद्यथा-"असंसढे हत्थे असंसट्टे मत्ते निरवसेसे दव्वे" इत्येकैकपदव्यभिचारान्नेयाः, स्थापना चेयम्--अथ पुनरसौ भिक्षुरेवं जानीयात् , तद्यथा-उदकादिनाऽसंसृष्टो हस्तादिस्ततो गलीयात् , यदिवा तथाप्रकारेण दातव्यद्रव्यजातीयेन ।६८२ ।।
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy