________________
श्रोत्राचा रावृत्तिः शीलाका.) ॥६७८॥
श्रुतस्कं०२ चूलिका १ पिण्डै.. उद्देशका ६
॥ अथ प्रथमपिण्डैषणाध्ययने षष्ठ उद्देशकः ॥ पञ्चमोद्दे शकानन्तरं षष्ठ समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके श्रमणाधन्तरायभयाद्गृहप्रवेशो निषिद्धः, तदिहाप्यपरप्राण्यन्तगयप्रतिषेधार्थमाह
से भिक्ख वा २ जाव से जं पुण जाणिजा-रसेसिणो बहवे पाणा घासेसणाए संथडे संनिवइए पेहाए, तंजहा-कुक्कुडजाइयं वा सूयरजाइयं वा अग्गपिंडंसि वा वायसा
संथडा संनिवडया पेहाए सह परक्कमे संजया नो उज्जुयं गच्छिज्जा ॥ सू०३१॥ स भिक्षुर्भिक्षार्थ प्रविष्टः सन् यदि पुनरेवं विजानीयात् , तद्यथा-बहवः 'प्राणा:' प्राणिनः रस्पते-आस्माद्यत इति रसस्तमेष्टुं शीलमेषां ते रसैषिणः, रसान्वेषिण इत्यर्थः, ते तदथिनः सन्तः पश्चाद् ग्रासार्थ क्वचिद्रथ्यादौ संनिपतितास्ताथाहारार्थ संस्कृ(स्तृ)तान्-घनान् संनिपतितान् प्रेक्ष्य ततस्तदभिमुखं न गच्छेदिति सम्बन्ध , तांश्च प्राणिनः स्वनामग्राहमाह-कुक्कुटजातिकं वेत्यनेन च पक्षिजातिरुद्दिष्टा, सूकरजातिकमित्यनेन च चतुष्पदजातिरिति, 'अग्रपिण्डे वा' काकपिण्डयां वा बहिः क्षिप्तायां वायसा: संनिपतिता भवेयुः, तांश्च दृष्वाऽग्रतः, ततः सति पराक्रमे-अन्यस्मिन् मार्गान्तरे 'संयतः सम्यगुपयुक्तः संयतामान्त्रणं वा ऋजुस्तदभिमुखं न गच्छेद्, यतस्तत्र गच्छनोऽन्तरायं भवति, तेषां चान्यत्र संनिपतिताना वधोऽपि स्यादिति ॥ साम्प्रतं गृहपतिकुलं प्रविष्टस्य साधोविधिमाह
||६७८॥