________________
॥६७४
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
से भिक्खू वा २ जाव नो गाहावइकुलस्स वा वारसाहं अवलंपिय २ चिहिज्जा, नो गाहावइकुलस्स वा दगच्छ हुणमत्तए चिहिज्जा, नो गाहावह कुलस्स चंदणिउयए चिट्ठिज्जा, नो गाहावइकुलस्स सिणाणस्स वा वच्चस्स वा सलोए सपडिदुवारे चिहिज्जा, नो गाहावाकुलस्स आलोयं वा थिग्गलं वा संधिं वा दगभवणं वा पाहाओ पगिझिय २ अंगुलियाए वा उद्दिसिय १ उण्णमिय २ अवनमिय निज्झाइजा, नो गाहावई अंगुलियाए उद्दिसिय २ जाइज्जा, नो गाहावई अंगुलिए चालिय २जाइज्जा, नो गाहावई अंगुलिए तज्जिय २ जाइजा, नो गाहावह अंगुलिए उक्खुलंपिय [ उक्खलं दिय] २ जाइज्जा,
नो गाहावई वंदिय २ जाइज्जा नो वयणं फरुसं वइज्जा ॥ सू० ३२॥ ___ स भिक्षमिक्षार्थ गृहपतिकुलं प्रविष्टः सन्नैतन्कुर्यात् , तद्यथा--नो गृहपतिकुलस्य द्वारशाखाम् 'अवलम्ब्यावलम्ब्य' पौन:पुन्येन भृशं वाऽवलम्ब्य तिष्ठेद् , यतः सा जीणत्वात्पतेद् दुष्प्रतिष्ठितत्वाद्वा चलेत् ततश्च संयमात्मविराधनेति, तथा 'उदकप्रतिष्ठापनमात्रके' उपकरणधावनोदकप्रक्षेपस्थाने प्रवचनजुगुप्साभयान तिष्ठेत् , तथा 'चंदणिउदय'त्ति आचमनोदकप्रवाहभूमौ न तिष्ठेद् , दोषः पूर्वोक्त एव, तथा स्नानवर्चःसंलोके तत्प्रतिद्वारं वा न तिष्ठेत् , एतदुक्तं भवति--यत्र स्थितैः स्नानवः क्रिये कुर्वन् गृहस्थः समवलोक्यते तत्र न तिष्ठेदिति, दोषश्चात्र दर्शनाशङ्कया निःशङ्कतक्रियाया अभावेन निरोधप्रद्वेपसम्भव इति, तथा नैव गृहपतिकुलस्य 'आलोकम् आलोकस्थानं गवाक्षादिक,
॥६७४ ।।