________________
॥ ६७३ ॥
स भिक्षुर्भितार्थ प्रविष्टः सन् पथ्युपयोगं कुर्यात्, तत्र च यदि पुनरेवं जानीयाद् यथाऽत्र किञ्चिद्गवादिकमस्ति इति तन्मार्ग रुन्धानं 'गा' बलीवर्द "व्याल' दृप्तं दुष्टमित्यर्थः पन्थानं प्रति प्रतिपथस्तस्मिन् स्थितं प्रत्युपेच्य शेषं सुगमं, यावत्सति पराक्रमे - मार्गान्तरे ऋजुना पथाऽऽत्मविराधनासम्भवान्न गच्छेत्, नवर 'विगं'ति वृकं दोपिनं' चित्रकम् 'अच्छं'ति ऋक्षं 'परिसर' न्ति सरभं 'कोलसुणयं' महासूकरं 'कोकंतियन्ति शृगालाकृतिर्लोमटको रात्रौ को को इत्येवं रारटीति, ‘चित्ताचिल्लड यं' ति आरण्यो जीवविशेषस्तमिति १ ॥ तथा-स भिक्षुर्भिक्षार्थं प्रविष्टः सन् मार्गोपयोगं दद्यात्, तत्रान्तराले यद्येतत्पर्यापद्येत - स्यात्, तद्यथा - 'अवपातः' गर्त्तः स्थाणुर्वा कण्टको वा घसी नाम-स्थलादधस्तादवतरणं 'भिलुग'त्ति स्फुटितकृष्ण भूराजिः विषमं निम्नोगतं विज्जलं - कर्दमः तत्रात्मसंयमविराधनासम्भवात् 'पराक्रमे' मार्गान्तरे सति ऋजुना पथा न गच्छेदिति ॥ तथा
भिक्खू वा २ जावगाहावइकुलस्स दुवारबाहं कंटगबु दियाए परिपिहियं पेहाए तेसिं पुव्वामेव उग्गहं अणणुन्नविय अपडिलेहिय अप्पमजिय नो अवंगुणिज वा पविसिज्ज वा मिक्खमिज़ वा, तेसिं पुष्वामेव उग्गहं अणुन्नविय पडिलेहिय पडिलेहिय पमजिय पमज्जिय तओ संजयामेव अवंगुणिज्ज वा पविसेज वा निक्खमेज्ज वा ॥ सू. २८ ॥ स भिक्षुर्भिक्षार्थं प्रविष्टः सन् गृहपतिकुलस्य 'दुवारबाहं'ति द्वारभागस्तं कण्टकशाखया 'पिहितं' स्थगित प्रेश्य येषां तद्गृहं तेषामवग्रहं पूर्वमेव 'अननुज्ञाप्य' अयाचित्वा तथा अप्रत्युपेच्य चक्षुषाऽप्रमृज्य च रजोहरणादिना
।। ६७३ ।।