________________
भक्तं वा, तदेवंभृतां सङ्कडि ज्ञात्वा तत्र च केनचित्स्वं जनादिना तन्निमित्तमेव किश्चिद् 'ह्रियमाणं' नीयमानं प्रेक्ष्य तत्र भिक्षार्थ न गच्छेद्, यतस्तत्र गच्छतो गतस्य च दोषाः संभवन्ति, तांश्च दर्शयति-गच्छतस्तावदन्तरा-अन्तराले 'तस्य' मिक्षोः 'मार्गाः पन्थानो बहवः प्राणा:-प्राणिन:-पतङ्गादयो येषु ते तथा, तथा बहुचीजा बहुहरिता बह्ववराया बहृदका बहूतिङ्गपनकोदकमृत्तिकामकटसन्तानकाः, प्राप्तस्य च तत्र सङ्खडिस्थाने बहवः श्रमणब्राह्मणातिथिकृपणवणीमगा उपागता उपागमिष्यन्ति तथोपागच्छन्ति च, तत्राकीर्णा चरकादिभिः 'वृत्तिः' वर्त्तनम् अतो न तत्र प्राज्ञस्य निष्क्रमणप्रवेशाय वृत्तिः कल्पते, नापि प्राज्ञस्थ वाचनाप्रच्छनापरिवर्तनाऽनुप्रेक्षाधर्मानुयोगचिन्तायै वृत्तिः कल्पते, न तत्र जनाकीर्णे गीतवादित्रसम्भवात् स्वाध्यायादिक्रियाः प्रवन्त इति भावः, समिक्षरेवं गच्छगतापेक्षया बहुदोषां तथाप्रकारां मांसप्रधानादिकां पुरःसङ्खडि पश्चात्सङ्खडि वा ज्ञात्वा तत्प्रतिज्ञया नाभिसन्धारयेद्गमनायेति १॥ साम्प्रतमपवादमाह -स भिरध्यानक्षीणो ग्लानोत्थितस्तपश्चरणकर्षितो वाऽवमौदर्य वा प्रेक्ष्य दुर्लभद्रव्यार्थी वा स यदि पुनरेवं जानीयात्-मांसादिकमित्यादि पूर्ववदालापका यावदन्तरा-अन्तराले 'से' तस्य भिक्षोर्गच्छतो मार्गा अल्पप्राणा अन्पषीजा अल्पहरिता इत्यादि व्यत्ययेन पूर्ववदालापकाः, तदेवमन्पदोषां सङ्खडिं ज्ञात्वा मांसादिदोषषरिहरणसमर्थः सति कारणे तत्प्रतिज्ञयाऽभिसंधारयेद्गमनायेति २॥ पिण्डाधिकारेऽनुवर्तमाने भिक्षागोचरविशेषमधिकृत्याह
से भिक्ख वा २ जाव पविसिउकामे से जं पुण जाणिज्जा खोरिणियाओ गावीओ खोरिजमाणोओ पेहाए असणं वा ४ उवसंखडिज्जमाणं पेहाए पुरा, अप्पजूहिए सेवं