________________
तानि 'आयतनानि' कर्मोपादानकारणानि 'सन्ति' भवन्ति 'संघीयमानानि' प्रतिक्षणमुपचीयमानानि इदमुक्तं भवति-अन्यान्यपि कर्मोपादानकारणानि भवेयुः, यत एवमादिकाः प्रत्यपाया भवन्ति तस्मादसौ संयतो निर्ग्रन्थस्तथाप्रकारां संखडिं पुरःसंखडिं पश्चात्संखडिं वा संखडिं ज्ञात्वा संखडिप्रतिज्ञया 'नाभिसंधारयेद् गमनाय' गन्तुन पर्यालोचयेदित्यर्थः । तथा
से भिक्खू वा २ अनयरिं संखडि सुच्चा निसम्म संपहावइ उस्सुयभूएण अप्पाणणं, धुवा संखडी, नो संचाएइ तत्थ इयरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं पडिग्गाहित्ता आहारं आहारित्तए, माइहाणं संफासे, नो एवं करिजा ॥ से तत्थ कालेण अणपविसित्ता तस्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवार्य
पडिगाहित्ता आहारं आहारिज्जा २ ॥ सू० १६॥ स भिक्षान्यतरां पुरःसंखडिं पश्चात्संखडि वा श्रुत्वाऽन्यतः स्वतो वा 'निशम्य' निश्चित्य कुतश्चिद्धेतोस्ततस्तदमिमुखं संप्रधावत्यु सुकभूतेनात्मना-यथा ममात्र भविष्यत्यद्भतभूतं भोज्यं, यतस्तत्र 'ध्रवा' निश्चिता संखडिरस्ति, 'नो संचापति न शक्नोति 'तत्र' संखडिग्रामे इतरेतरेभ्यः कुलेभ्यः संखडिरहितेभ्य: 'सामुयाणियंति मैक्षं, किम्भूतम :'एषणीयम' आधाकर्मादिदोषरहितं 'वेसियंति केवलरजोहरणादिवेषालम्धमुत्पादनादिदोषरहितम्, एवंभूतं पिण्डपातम| आहारं परिगृह्याभ्यवहत्तुं न शक्नोतीति सम्बन्धः, तत्र चासौ म तृस्थानं संस्पृशेत, तस्य मातृस्थानं संभाव्येत, कथं :
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀