________________
श्रीआचारावृत्तिः शीलाङ्का.)
चूलिका १ पिण्डै० १ उद्देशक
पञ्चविधाः-निग्रन्थशाक्यतापसगैरिकाजीविका इति, ब्राह्मणान् भोजनकालापस्थाय्यपूर्वो वाऽतिथिस्तानिति कृपणादरिद्रास्तान वणीमका-बन्दिप्रायास्तानपि श्रमणादीन् बहन् 'उद्दिश्य' प्रगणय्य प्रगणय्योदिशति, तद्यथा-द्वित्राः श्रमणाः पञ्चषाः ब्राह्मणा इत्यादिना प्रकारेण श्रमणादीन परिसङ्ख्यातानुद्दिश्य, तथा प्राण्यादीन् समारभ्य यदशनादि संस्कृतं तदासेवितमनासेवितं वाऽप्रासुकमनेषणीयमाधाकर्म, एवं मन्यमानो लाभे सति न प्रतिगृह्णीयादिति ॥ विशोधिकोटिमधिकृत्याह--
से भिक्खू वा भिक्खणी वा जाव पविढे समाणे से जं पुण जाणिज्जा-असणं वा ४ घहवे समणमाहण-अतिहि-किवणवणीमए समुहिस्स जाव चेएइ तं तहप्पगारं असणं वा ४ अपुरिसंतरकडं वा अवहियानीहडं अणत्तट्ठिय अपरिभुतं अणासेवियं अफासुयं अणेसणिज्जं जाव नो पडिग्गाहिज्जा । अह पुण एवं जाणिज्जा पुरिसंतरकडं पहियानीहडं अत्तडियं परिभुत्तं आसेवियं फासुयं एसणिज्जं जाव पडिग्गा
हिज्जा २॥ सू० ८॥ स मियत्पुनरशनादि जानीयात, किंभृतमिति दर्शयति-बहुन् श्रमणबाह्मणातिथिकृपणवणीमकान् समुद्दिश्य श्रमणाद्यर्थमिति यावत, प्राणादींश्च समारभ्य यावदाहृत्य कश्चिद् गृहस्थो ददाति, तत्तथाप्रकारमशनाद्यपुरुषान्तरकृतमबहिनिगतमनात्मीकृतमपरिभुक्तमनासेवितमप्रासुकमनेषणीयं मन्यमानो लाभ सति न प्रतिगृह्णीयात् १ ॥ इयं च "जावं.
॥६४४॥