________________
॥६४१॥
दोषाः, तथाहि अनेषणीयग्रहणे तत्प्रवृत्तिरनुन्नाता भवति, अग्रहणे तैः सहासङ्खडादयो दोषाः, तत एतान् दोषान् ज्ञात्वा साधु हतिकुलं पिण्डपातप्रतिज्ञया तैः सह न प्रविशेनापि निष्कामेदिति । । तैः सह प्रसंगतोऽन्यत्रापि गमन प्रतिषेधमाह-भिक्षुर्वहिः 'विचारभूमि' सञ्चाव्युत्सर्गभूमि तथा 'विहारभमि' स्वाध्यायभूमि तैरन्यतीर्थिकादिभिः सह दोषसम्भवान प्रविशेदिति सम्बन्धः, तथाहि--विचारभूमौ प्रासुकोदकस्वच्छास्वच्छबह्वल्पनिलेपनकृतोपघातसद्धावाद्, विहारभूमौ वा सिद्धान्तालापकविकत्थनभयात्सेहाद्यसहिष्णुकलहसद्भावाच्च साधुस्ता तैः सह न प्रविशेनापि ततो निष्क्रामेदिति २॥ तथास भिक्षुर्दामाद्ग्रामो ग्रामान्तरमुपलक्षणार्थत्वान्नगरादिकमपि 'दइज्जमाणो'त्ति गच्छन्नेमिरन्यतीथिकादिभिः सह दोषसम्भवान्न गच्छेद , तथाहि--कायिक्यादिनिरोधे सत्यात्मविराधना, व्युत्सर्गे च प्रासुकाप्रासुकग्रहणादावुपघातसंयमविराधने भवता, एवं भोजनेऽपि दोपसम्भवो भावनीयः सेहादिविप्रतारणादिदोषश्चेति ३॥ साम्प्रतं तदानप्रतिषेधार्थमाह
से भिक्खू वा भिक्खणो वा जाव पविढे समाणे नो अन्नउत्थियरस वा गारत्थियस्स वा परिहारिओ वा अपरिहारियस्स असणं वा पाणं वा स्वाइमं वा साइमं वा दिज्जा
वा अणुपइज्जा वा ॥ सू०५॥ समिक्षुर्यावद्गृहपतिकुल प्रविष्टः सन्नुपलक्षणत्वादपाश्रयस्थो वा तेभ्योऽन्यतीर्थिकादिभ्यो दोषसम्भवादशनादिकं ४ न दद्यात स्वतो ताप्यनुप्रदापयेदपरेण गृहस्थादिनेति, तथाहि-तेभ्यो दीयमानं दृष्टा लोकोऽभिमन्यते--एते यैवंविधा
६४१.