SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ०६३१॥ क्रापयति क्रीणन्न मन्यमनुजानाने, तथाऽयमम्य-विमोहाध्ययनस्य द्वितीयोदेशक इदं सूत्रम्-भिक्ख परकर्मजा चिटेज वा निसीएज वा तुयटिज वा सुसाणं सि वे"त्यादि यावद् “बहिया विहरिजा तं भिकावु गाहावती उवसंकमित्त वएज्जा-अहमाउसंतो समणा ! तुम्भावाए असणं वा पाणं वा खाइमं वा साइमं वा पाणाई भूयाइ जीवाई सत्ताईसमारम्भ समुद्दिस्स कोयं पामिच"मित्य दि, एतानि सर्वाण्यपि सूत्राण्याश्रित्यैकादश पिण्डैषणा नियूढाः, तथा तस्मिन्नेव द्वितीयाध्ययने पञ्चमोद्देशके सूत्रम्- “से वत्थं पडिग्गहं कंबलं पायपुछणं उग्गहं च कडासण"मिति, तत्र वस्त्रकम्बल पाइपुञ्छनग्रहणाद् वस्त्रषणा नियू ढा. पतद्ग्रहपदात पात्रषणा नियुढा, अवग्रह इत्येतस्मादवग्रहप्रतिमा नियूढा, कटासनमित्येतस्माच्छय्येति, तथा पश्चमाध्ययनावन्त्याख्यस्य चतुर्थोदेशके सूत्रम्-"गामाणुगामं दूइजमाणस्स दुजायं दुप्परिक्कंतं" इत्यादिनेर्या सक्षेपेण व्यावर्णितेत्यत एव ईर्याध्ययनं नियूढम् , तथा षष्ठाध्ययनस्य धृताख्यस्य पञ्चमोद्देशके सूत्रम् - "आइक्खइ विहयइ कि धम्मकामी"त्येतस्माद्भाषाजाताध्ययनमाकृष्टमित्येवं विजानीयास्त्वमिति । तथा महापरिज्ञाध्ययने सप्तोद्देशकास्तेभ्यः प्रत्येक सप्तापि सप्तकका नियूढाः, तथा शस्त्रपरिज्ञाध्ययनाद्भावना नियुढा, तथा धृताध्ययनस्य द्वितीयचतुथोंदेशकाभ्यां विमुक्त्यध्ययनं नियंढमिति, तथा 'आचारप्रकल्प:'निशीथः, स च प्रत्याख्यानपूर्वस्य यत्तृतीयं वस्तु तस्यापि यदाचाराख्यं विंशतितमं प्राभृतं ततो नियूढ इति ॥ ब्रह्मचर्याध्ययनेभ्य आचाराग्राणि नियूढान्यतो नियूहनाधिकारादेव तान्यपि शस्त्रपरिज्ञाध्ययनानियूढानीति दर्शयति--
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy