________________
॥६२७॥
॥ अहम् ॥ ॥ अथ द्वितीयोऽग्राख्य-श्रुतस्कन्धः ॥ ॥ चूलिका १ ॥ पिण्डैषणाऽध्ययनं १ ॥ उद्देशकः १ ॥ जयत्यनादिपर्यन्तमनेकगुणरत्नभृत् । न्यत्कृताशेषतीर्थेशं तीर्थ तीर्थाधिपैनुतम् ॥१॥ नमः श्रीवर्डमानाय, सदाचारविधायिने । प्रणताशेषगीर्वाणचूडारत्नार्चिताहये ॥२॥ .
आचारमेरोर्गदितस्य लेशतः, प्रवच्मि तच्छेषिकचूलिकागतम्।
आरिप्सितेऽथे पुणवान् कृती सदा, जायेत निःशेषमशेषितक्रियः॥३॥ उक्तो नवब्रह्मचर्याध्ययनात्मक आचारश्रुतस्कन्धः, साम्प्रतं द्वितीयोऽप्रश्रुतस्कन्धः समारभ्यते, अस्य चायमभिसम्बन्धः-उक्तं प्रागाचारपरिमाणं प्रतिपादयता, तद्यथा-"'नवबंभचेरमइओ अट्ठारसपयसहस्सिओ वेओ। हवह य सपंचचूलो बहुबहुअयरो पयग्गेणं ॥१॥" तत्राद्य श्रुतस्कन्धे नवब्रह्मचर्याध्ययनानि प्रतिपादितानि, तेषु च न समस्तोऽपि विवक्षितोऽर्थोऽभिहितः अभिहितोऽपि सक्षेपतोऽतोऽनभिहितार्थाभिधानाय सक्षेपोक्तस्य च प्रपञ्चाय तदअमृताश्चतस्रश्चूडा उक्तानुक्तार्थसमाहिकाः प्रतिपाद्यन्ते, तदात्मकश्च द्वितीयोऽप्रश्रुतस्कन्धः, इत्यनेन
१ नवब्रह्मचर्यमयोऽष्टादशपदसहस्रका वेदः । मवति च सपञ्चचूलो पहुबहुसरः पदाप्रेण ॥१॥
६२७॥