________________
॥ ६२५ ॥
܀܀܀܀܀܀܀
यथा ज्ञानक्रियायों परस्परमव्यपेक्षौ सकलकर्मकन्दोच्छेदात्मकस्य मोक्षस्य कारणभृताविति, प्रदीप्तसमस्तनगगन्तवत्तिपरस्परोपकार्योपकारकभावावाप्तानाबाधस्थानौ पद्मबन्धाविवेति तथा चोक्तम् - " " संजोयसिहीए फलं वदन्ती' त्यादि, स्वतन्त्रप्रवृत्तौ तु न विवक्षितकार्यं साधयत इत्येतच्च प्रसिद्धमेव, यथा 'हयं णाण' मित्यादि, आगमेऽपि सर्वनयोपसंहारद्वारेणायमेवार्थोऽभिहितो, यथा - "सव्वेसिंपि णयाणं बहुविहवत्तवयं णिसामेत्ता । तं सव्वणयविसुद्ध जं चरणगुणडिओ साह ॥ १ ॥ त्ति, तदेतदाचाराङ्गं ज्ञानक्रियात्मकं अधिगतसम्यक्पथानां कुश्रतसरित्कषायझपकुलाकुलं प्रियविप्रयोगाप्रिय संप्रयोगाद्यनेकव्यसनोपनिपात महावत्तं मिथ्यात्व पवनेरणोपस्थापित भयशोकहास्यरत्यरत्यादितरङ्गं विश्रसावेलाचितं (विलं) व्याधिशतनक्रचक्रचक्रालयं महागम्भीरं भयजननं पश्यतां त्रासोत्पादकं महासंसारार्णवं साधूनामुत्तितीर्पतां तदुत्तरणसमर्थमव्याहतं यानपात्रमिति, अतो मुमुक्षुणाऽऽत्यन्तिकै कान्तिकानाबाधं शाश्वतमनन्तमजरममरमक्षयमव्याबाधमुपरत समस्तद्वन्द्वं सम्यग्दर्शनज्ञानत्रतचरणक्रियाकलापोपेतेन परमार्थ परमकार्यमनु
मोक्षस्थानं लिप्सुना समालम्वनीयमिति तदात्मकस्य ब्रह्मचर्याख्यश्रुतस्कन्धस्य निर्ऋतिकुलीन श्री शीलाचार्येण तत्त्वादित्या परनाम्ना पाहरिसाधुसहायेन कृता टीका परिसमाप्तेति ॥ श्लोकतो ग्रन्थमानम् - ६७६ ।।
१ संयोगसिद्धेः फलं वदन्ति ( जैव कचक्रेण रथः प्रयाति । अन्धश्च पङगुश्च वने समेत्य तौ संप्रयुक्तौ नगरं प्रविष्टौ ॥ १ ॥ ) २ हतं ज्ञानं क्रियाहीनं, ३ सर्वेषामपि नयानां बहुविधवक्तव्यतां निशम्य । तत्सर्वनयविशुद्धं यच्चरणगुणस्थितः साधुः ॥ १ ॥
*******
॥ ६२५ ॥