________________
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
हेयोपादेयहानोपादानप्रवृत्ते नाधीनत्वात् , तथा हि-सुनिश्चितात् सम्यगज्ञानात्प्रवृत्तोऽर्थक्रियार्थी न विसंवाद्यते, तथा चोक्तम्-"विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवनस्य, फलासंवाददर्शनाद् ॥१॥" इत्यादि, संविनिष्ठत्वाच्च विषयव्यवस्थितीनां तत्पूर्वकसकलदुःखप्रहीणत्वाच्चान्वयव्यतिरेकदर्शनाच्च ज्ञानस्य प्राधान्यं, तथाहि-शानामावेऽनर्थपरिहाराय प्रवर्त्तमानोऽपि तत्करोति येन निता पतङ्गवदनथेन संयुज्यते, ज्ञानसद्भावे च समस्तानप्यर्थानर्थसंशयांश्च यथाशक्तितः परिहरति, तथा चागमः-'पढमं नाणं तओ' इत्यादि, एवं तावत्तायोपशमिकं ज्ञानमाश्रित्योक्तं, चायिकमप्याश्रित्य तदेव प्रधानं , यस्माद्भगवतः प्रणतसुरासु मुकुटकोटिवेदिकाहितचरणयुगलपीठस्य भवाम्भोधितटस्थस्य प्रतिपन्नदीक्षस्य त्रिलोकबन्धो तपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः सञ्जायते यावज्जीवाजीवायखिलवस्तुपरिच्छेदरूपं घनघातिकर्मसंहतिक्षयात्केवलज्ञान नोत्पन्नमित्यतो ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारण, युक्तियुक्तत्वादिति । अधुना क्रियानयामिप्रायोऽभिधीयते, तद्यथा--क्रियैव प्रधान हिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात, यस्माद्दर्शितेऽपि ज्ञानेनार्थक्रियासमर्थेऽर्थे प्रमाता प्रेक्षापूर्वकारी यदि हानोपादानरूपी प्रवृत्तिक्रिया न कुर्यात् ततो ज्ञानं विफलतामियात्, तदर्थत्वात्तस्येति, यस्य हि यदर्थ प्रवृत्तिस्तत्तस्य प्रधानमितरदप्रधानमिति न्यायात, संविदा विषयव्यवस्थानस्याप्यर्थक्रियार्थत्वाक्रियायाः प्राधान्यम् , अन्वयव्यतिरेकावपि क्रियायां समुपलभ्येते, यतःसम्यकचिकित्साविधिज्ञोऽपि यथार्थोषधावाप्तावपि उपयोगक्रियारहितो नोलापतामेति, तथा चोक्तम्-"शास्त्राण्यधोत्यापि भवन्ति मूर्खा, यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्यतामौषधमातरं हि किं ज्ञान