SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ उप. उधका ४ मनुपमं यच्छिवं त्वामुवाच । तीर्थ नाथो लघुभवभयच्छेवि तर्ण विधत्स्वेत्येतद्वाक्यं त्वदधिगतये नो भीआचा किमु स्यानियोगः ॥१॥" इत्यादि, कथं तीर्थप्रवर्तनायोद्यत इति दर्शयति-'आत्मशया' आत्मकम्मक्षयोपराजवृत्तिः शमोपशमक्षयलक्षणयाऽऽयतयोग-सुप्रणहितं मनोवाकायात्मकं विधाय विषयषायायुपशमादिभिनिवृत्ता-शीतीभृता, (घीलाङ्का.) तथा अमायावी--मायारहित उपलक्षणार्थत्वादस्याक्रोषाधपि द्रष्टव्यं, 'यावत्कथ मिति यावज्जीवं भगवान् पञ्चभिः .६२२॥ समितिभिः समितः तथा तिसभिगुप्तिमिगुपश्चासीदिति ॥ श्रुतस्कन्धाध्ययनोद्देशकार्थमुपसंजिही राह-एषः-अनन्तरोक्तः । शस्त्रपरिज्ञादेरारभ्य योऽभिहितः सोऽनुकान्त:-अनुष्ठित आसेवनापरिज्ञया सेविता, केन ?-श्रीवर्द्धमानस्वामिना 'मतिमना' ज्ञानचतुष्टयान्वितेन बहुश:--अनेकशोऽप्रतिज्ञेन-अनिदानेन भगवता-ऐश्वर्यादिगुणोपेतेन, अतोऽपरोऽपि मुमुक्षुरनेनैव भगवदाचीर्णेन मोक्षप्रगुणेन पथाऽऽत्महितमाचरन् रीयते-पराक्रमते, इतिरधिकारपरिसमाप्तौ, ब्रवी मीति सुधर्मस्वामी जम्बूस्वामिने कथयति-सोऽहं ब्रवीमि येन मया भगवद्वदनारविन्दादर्थजातं निर्यातमवधारितमिति ॥ । उक्तोऽनुगमः सूत्रालापकनिष्पन्न निक्षेपश्च ससूत्रस्पर्शनियुक्तिका, साम्प्रतं नयाः, ते च नैगमसङ्ग्रहव्यवहारऋजुसूत्रशब्द समभिरूटैवंभूतमेदभिन्नाः सामान्यतः सप्त, ते चान्यत्र सम्मत्यादी लक्षणतो विधानतश्च न्यक्षेणाभिहिता इति, इह पुनस्त एव ज्ञानक्रियानयान्तर्भावद्वारेण समासतःप्रोच्यन्ते, अधिकृताचाराङ्गस्य. ज्ञानक्रियात्मकतयोभयरूपत्वात ज्ञानक्रियाधीनत्वान्मोक्षस्य तदर्थ च शास्त्रप्रवृत्तेरिति भावः, अत्र च परस्परतः सव्यपेक्षावेव ज्ञानक्रियानयो विवक्षितकार्यसिद्धयेऽलं नान्योऽन्यनि पेक्षावित्येतत्प्रपञ्च्यते, तत्र ज्ञाननयाभिप्रायोऽयम्--यथा ज्ञानमेव प्रधान न क्रियेति, समस्त
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy