________________
| च-मांसानि च तत्र भगवतश्छिन्नपूर्वाणि एकदा कायमवष्टभ्य--आक्रम्य तथा नानाप्रकाराः प्रतीकूल परीपहाच भगवन्तमलुञ्चिपुः, अथवा पांसुनाऽत्रकीर्णवन्त इति ॥ किं च-भगवन्तमूत्रमुरिक्षप्य भूमौ 'निहतवन्तः' क्षिप्तवन्तः, अथवा 'आसनात गोदोहिकोत्कुटुकासनवीरासनादिकात् 'स्खलितवन्तो निपातितवन्तः, भगवांस्तु पुनव्युत्सृष्टकायः परीपहसहनं प्रति प्रणत आसीत् , परीषहोपसर्मकृतं दुःखं सहत इति दुःखसहो भगवान् , नास्य दुःखचिकित्साप्रतिज्ञा विद्यत इत्यप्रतिज्ञः ।। कथं दुःखसहो भगवानित्येतदृष्टान्तद्वारेण दर्शयितुमाह
सुरो सामसीसे वा संत्रुडे तत्थ से महावीरे। पडिसेवमाणे फरुसाई अचले भगवं रीयित्था ॥ १३ ॥ एस विही अणुकन्तो माहणेण मईमया । बहुसो अपडिण्णेण भगवया
एवं रीयंति ॥ १४॥ तिबेमि ॥ इति तृतीय उद्देशकः ॥९-३॥ यथा हि संग्रामशिरसि 'शूर' अक्षोभ्यः परैः कुन्तादिभिर्भिद्यमानोऽपि वर्मणा संवृताङ्गो न भङ्गमुपयातीति, एवं सं भगवान्महावीरः 'तत्र' लाढादिजनपदे परीषहानीकतुद्यमानोऽपि प्रतिसेवमानश्च 'परुषान्' दुःखविशेषान् मेरुरिवाचलो--निष्प्रकम्पो धृत्या संवृताङ्गो भगवान् ‘रीयते स्म' ज्ञानदर्शनचारित्रात्मके मोक्षाध्वनि पराक्रमते स्मेति ॥ उद्देशकार्थमुपसंजिही राह-'एस विही'त्यादि पूर्ववद् । उपधानश्रुताध्ययनस्य तृतीयोद्देशकः परिसमाप्तः ॥६-३॥
॥६१५.